________________
Shri Mahar Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandir
न्यायात् अत आह वानरा इति । तत्र तदानीम् । प्रचकर्षुः आनयन्ति स्म ॥५५॥ सेतुबन्धनसायकृतां वृक्षाणां कृतार्थता व्यअयितुं तान् परिगणयति धोकद्वयन-ते सालेरित्यादिना ॥ ५६ ॥ १७॥ अथेषामानयनशैत्र्यमाह-समृलानिति । हरयस्तरूनित्युत्तरशेषः ॥ ५८॥ वृक्षेपून्मूलितेषु । गुल्मादीनाजहुरित्याइ-तालानिति । तालान् क्षुद्रतालान् । खदिरान अरिमेदकान् ॥ ५९॥ भूरुहेषु लुप्तेषु पाषाणपर्वतादीनाजहारत्याइ-इस्तीति । ते सालैश्चाश्वकर्णेश्च धवैवैशैश्च वानराः । कुटजैरर्जुनेस्तालेस्तिलकैस्तिमिशैरपि ॥५६॥ बिल्वैश्च सप्तपर्णेश्च कर्णिकारैश्च पुष्पितैः । चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥५७॥ समूलांश्च विमूलांश्च पादपान हरिसत्तमाः। इन्द्रकेतूनिवोद्यम्य प्रजहुर्हरयस्तरून ॥५८॥ तालान् दाडिमगुल्मांश्च नारिकेलान विभीतकान् । वकुलान खदिरा निम्बान समाजहुः समन्ततः ॥५९॥ हस्तिमात्रान महाकायाः पाषाणांश्च महाबलाः । पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च ॥६॥ प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् । समुत्पतितमाकाशमुपासर्पत्ततस्ततः ॥ ६ ॥ समुद्र क्षोभयामासुर्वानराश्च समन्ततः । मूत्राण्यन्ये प्रगृहन्ति व्यायतं शतयोजनम् ॥ ६२ ॥ नलश्चके महासेतुं
मध्ये नदनदीपतेः। स तथा क्रियते सेतुर्वानरैधोरकर्मभिः ॥६३॥ दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथा परे ॥६४॥ हस्तिमात्रान् गजप्रमाणान् । " प्रमाणे द्वयसचदननमात्रचः " इति मात्रच्प्रत्ययः। यन्त्रैः शकटादिभिः ॥६॥ प्रक्षिप्यमाणैरिति । उद्धतम् उत्पतितम् आसीत् । समुत्पतितं सत् आकाशं ततस्ततः तत्र तत्र उपासर्पत् प्रससार ॥ ६१ ॥ समुद्रमिति । सूत्राणि शतयोजनं व्यायतम् आकृष्टं । यथा भवति तथा प्रगृह्णन्ति प्रागृहन्, आजवार्थम् । व्यत्ययेन लकारः ॥ ६२॥ घोरकर्मभिः युगपदनेकपर्वतानयनकर्मभिः । तथा नलक्रियानुसारेण ॥५३॥ दण्डान सूत्रबद्धदण्डान्, वानरत्वराकरणदण्डान् वा । विचिन्वन्ति विशेषेण चयनं कुर्वन्ति । नलबद्धसेतोरुपार शिलाश्चितवन्त इत्यर्थः॥६४॥ समूलानिति । हरयस्तरूनित्यस्योत्तरेण सम्बन्धः ।। ५८ ॥ ५९ ॥ यन्त्रैः आनयनसाधनैः । समुद्रं क्षोभयामासुर्वानराश्च समन्ततः इति पाठः ॥ ६॥६१ ॥ सत्राणीति । शतयोजनं व्यापतं सूत्राणि प्रगृहन्ति। व्यायतं व्यायामः । शतयोजनदीर्घपर्यन्तस्य न्यूनातिरिक्तपरिहारार्धे सूत्राण्यगृहनित्यर्थः ॥२॥६॥ दण्डानिति ।
For Private And Personal Use Only