________________
Shri Mahavir Jain Aradhana Kendra
पा.रा.भू. ॥७८॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अता राघवायेति परोक्ष निर्देशः । “हिमवान् मन्दरो मेरुः" इत्यादिवत् । मध्ये कविवाक्यं वा । दण्ड एव परः समीचीनोपायः । क्षमां सान्त्वं साम दानं वा धिक्, क्षमादयो नोपाया इत्यर्थः ॥ ४९ ॥ उक्तेऽर्थे हेतुमाह-अयं हीति । हि यस्मात्सागरः सगरखानितः प्रत्युपकारानभिज्ञ इत्यर्थः । दण्डभयात् सेतुकर्मदिदृक्षया गाधं ददावित्यन्वयः । सेतुकर्मदिदृक्षा च दण्डभयादेवास्य जातेत्यर्थः ॥ ५० ॥ पूर्वोक्तस्य पितृतुल्यसामर्थ्यलाभस्य हेतुं दर्शयति-
अयं हि सागरो भीमः सेतुकर्मदिदृक्षया । ददौ दण्डभयाद्गाधं राघवाय महोद्धिः ॥ ५० ॥ मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा । औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा ॥५१॥ स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः । चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ॥ ५२ ॥ समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये । काममद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः ॥५३॥ ततोऽतिसृष्टा रामेण सर्वतो हरियूथपाः । अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः ॥ ५४ ॥ ते नगान्नगसङ्काशाः शाखामृगगणर्षभाः । बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् ॥ ५५ ॥
न
ममेति । मया सदृशः पुत्रस्तव भविष्यतीत्येवंरूपो वरः । अयं चार्थः ' औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा ' इत्यनुवादात्सिद्धः ॥ ५१ ॥ त तावत्पर्यन्तं किमर्थं नोक्तवानसीत्यत्राह स्मारित इति । एतेन समुद्रेण । अनुक्तौ निमित्तान्तरमप्याह--नचेति । अनुक्तः अन्येनानुक्तः । स्वेनैवोक्तौ महा कर्मारम्भे विश्वासो न भवेदिति भावः ॥ ५२ ॥ न केवलमुक्तिमात्रं समर्थश्चापीत्याह- समर्थश्चेति । बधन्तु बन्धनाय शिलादिकमानयन्त्वित्यर्थः ॥ ५३ ॥ अतिसृष्टाः नियुक्ताः ॥ ५४ ॥ नगान् वृक्षान् । नगसङ्काशाः गिरिसङ्काशाः । वानराधिपतित्वेऽपि मनुष्यत्वं सम्भवति निषादस्थपत्यधिकरणपूर्वपक्षअग्रमिति । अयं सागरः दण्डभयात्सेतुकर्मदिदृक्षया गाधं ददावित्यन्वयः । नतु रामसम्बन्धित्वमात्रेण हनुमते मैनाकद्वारेण कृतोपकारः सागरस्साक्षाद्रामे "समागत्य प्रसन्ने सति अमुमुपायं प्रथमत एवाविलम्बेन किमर्थं नोपदिष्टवानिति चेत् ? सत्यम्; मया च विलम्बे क्रियमाणे विलम्बमसहमानो रामो मथि कोपादनं सन्धास्यति एतस्मिन्नन्तरे तं प्रसादयित्वा संहितेनास्त्रेण मम शत्रून्मारयित्वा पञ्चादुपकरिष्यामीति धिया स्थित इति न दोषः ॥ ५० ॥ स्वस्य पितृसदृशत्वं दर्शयितुं वरागमनप्रकारमाह-मम मातुरिति । मम मातुर्वरो दत्तः मया सदृशस्तव पुत्रो भविष्यतीत्येवंरूपः ॥ ५१ ॥ नलस्समुद्रोपदेशात्मामेवैतत्सामर्थ्यं किं नावदत् । तत्राह-न चेति ॥ ५२ ॥ ५३ ॥ तत इति । सागरं प्रतीति शेषः ॥ ५४-५७ ॥
For Private And Personal Use Only
टी.यु.कां.
स० [२२]
॥ ७८ ॥