SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Maa Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun yanmandir मनुष्यत्वं भावयतो वरदानमित्यत्राह अमरविक्रम इति । “सत्येन लोकान् जयति" इति न्यायेन वशीकृतसर्वलोक इत्यर्थः॥ ११ ॥ वरं सिद्धिमुखेन दर्शन यति शोकद्वयेन-पशव्य इत्यादि। पशव्यः पशुभ्यो हितः पशूपभोग्यबालतृणादिसमृद्ध इत्यर्थः। अल्परोगः आरम्भ एव विनष्टरोगः। रसःमधु ।आयुतः समन्तायुक्तः । लेहः घृतम्। औषधमोषधिसमूहः । एवमेतैः एवम्प्रकारैः। गुणैः भोग्यैः। युक्तः संयुक्तः। शिवः पन्थाः शोभनप्रदेश इत्यर्थः ॥४२॥४३॥nd पशव्यश्चाल्परोगश्च फलमूलरसायुतः । बहुस्नेहो बहुक्षीरस्सुगन्धिर्विविधौषधः॥ ४२ ॥ एवमेतैर्गुणैर्युक्तो बहुभिः सततं मरुः।रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥४३॥ तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरितां पतिः। राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ॥४४॥ अयं सौम्य नलो नाम तनुजो विश्वकर्मणः। पित्रा दत्तवरः श्रीमान् प्रतिमो विश्वकर्मणा ॥४५॥ एष सेतुं महोत्साहः करोतु मयि वानरः । तमहं धारयिष्यामि तथा ह्येष यथा पिता ॥४६॥ एवमुक्त्वोदधिनष्टः समुत्थाय नलस्तदा। अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः ॥४७॥ अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये । पितुःसामर्थ्यमास्थाय तत्त्वमाह महोदधिः॥४८॥ दण्ड एव वरो लोके पुरुषस्येति मे मतिः। धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ॥ ४९॥ तस्मिन्निति । स्पष्टम् ॥ १४ ॥ एवं सेतुनिर्माणानुकूलं स्थास्यामीत्युक्तवान्, सम्प्रति वरदानसन्तुष्टो वाक्सहायमाचरति-अयमिति । दत्तवरः मत्तुल्य पुत्रस्ते भविष्यतीति मात्र दत्तवरः ॥ १५॥ एष इति । तं सेतुम् तथा ह्येष यथा पितेति । पिता यथा यादृशशक्तिमान तादृशोऽयमित्यर्थः ॥ ४६॥ एवमिति । उदधिः नष्टः अन्तर्हितः॥४७॥ अहमिति । पितुः सामर्थ्य पित्रा दत्तं सामर्थ्यम् ॥ १८॥ अथ वानरान् प्रत्याह-दण्ड इत्यादिश्लोकद्वयेन । पशव्य इति । पशव्यः पशुभ्यो दितः॥ ४२ ॥ १३॥ कुक्षी दग्धे शोषितजले ॥४४॥ पित्रा विश्वकर्मणा दत्तवरः आकाशजलोपरिस्थायिगमनशीलविमानादि निर्माणादिस्वकर्मकुशलेन सदृशसामर्थ्यः ॥ ४५ ॥ एष इति । नल सेतुं बर्दू कथं शक्नुयात्तत्राह-यथोति । यथा पिता विश्वकर्मा एष नलस्तथोत सम्बन्धः॥४६॥ नष्टः अन्तर्हितः॥ ४७-४९॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy