________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
दस्यवः शत्रवः । “दस्युशात्रवशत्रवः" इत्यमरः । दस्यवः चोरा वा । आभीराः महाशूद्राः॥ ३२ ॥ तत्र दुमकुल्ये । तेषु आभीरप्रमुखेषु ।। ३३ टी.यु.का. सागरदर्शनात्सागरमतेन । यद्वा अङ्गुल्या निर्दिश्य सागरेण प्रदर्शनात् ॥ ३४ ॥ तेन शरमोक्षणेन ॥ ३५ ॥ ननाद जलनिर्गमेनेति भावः । व्रण। मुखात् वणमुखद्वारेण ॥ ३६॥ सः व्रणमुखं व्रणकूपः इत्यभिविश्रुतो बभूव । सततमिति । तस्येति शेषः ॥ ३७॥ अवदारणशब्दः, बाणस्येति ।।
तैस्तु संस्पर्शनं प्राप्तैर्न सहे पापकर्मभिः । अमोघः क्रियतां राम वत्र तेषु शरोत्तमः॥३३ ॥ तस्य तद्वचनं श्रुत्वा सागरस्य स राघवः। मुमोच तं शरं दीप्तं वीरः सागरदर्शनात् ॥ ३४ ॥ तेन तं मरकान्तारं एथिव्यां खलु विश्रुतम् । निपातितः शरो यत्र दीप्ताशनिसमप्रभः ॥ ३५ ॥ ननाद च तदा तत्र वसुधा शल्यपीडिता । तस्माद्वणमुखात्तोयमुत्पपात रसातलात् ॥ ३६॥ स बभूव तदा कूपो व्रण इत्यभिविश्रुतः । सततं चोत्थितं तोयं समुद्रस्येव दृश्यते ॥ ३७॥ अवदारणशब्दश्च दारुणः समपद्यत ॥ ३८॥ तस्मात्तद्वाणपातेन त्वपः कुक्षिष्व शोषयत् ॥३९॥ विख्यातं त्रिषु लोकेषु मरकान्तारमेव तत् ॥ ४० ॥ शोषयित्वा ततः कुक्षि रामो दशरथा त्मजः । वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः॥४१॥ शेषः ॥ ३८ ॥ तस्मादित्यर्धम् । तद्बाणपातेन तस्य बाणस्य पातेन । कुक्षिषु अवटेषु स्थिता अपः पूर्व पापस्पृष्टानि जलानि । तस्मात् द्रुमकुल्यात्।। अशोषयत् न्यवारयदित्यर्थः॥३९॥ पूर्वरामबाणपातेन पृथिव्यां विश्रुतत्वमुक्तम्, सम्प्रति विरोधिनिरसनात् त्रिषु लोकेषु विख्यातत्वमाह-विख्यातमिति । मरुकान्तारमेव मरकान्तारनामैव । विख्यातं प्रसिद्धमभूदित्यर्थः ॥४०॥ शोषयित्वेति । कुझिं समुद्रमध्यप्रदेशम् । मरुकान्तारं शोषयित्वा दग्ध्वा । कथं सागरदर्शनात् सागरोपदेशात् ॥ ३४ ॥ तेन रामेण । दीप्ताशनिसमप्रभः शरो यत्र निपातितः तत्स्थलं पृथिव्या मरकान्तारमिति विश्रुतं खलु पूर्वमेव प्रसिद्ध हीत्यर्थः ॥३५॥ सततमिति । मरुभूमौ रामबाणत्रणादुत्थितं तोयं स्वादूदकं समुद्रस्येव समुद्रसलिलमिव दृश्यत इत्यर्थः ॥ ३६-३८ ॥ तस्मादिति । तद्बाणपातेन । कुक्षिष्ववटेष्वपः आभीरादीनां जीवनसाधनभूताः पुरातनीरपः तस्मादेशादशोषयत् निरासयत, राम इति शेषः । यद्वा पूर्वमपः पापिष्ठाभिस्पृष्टाः ता| तस्मात्यापिष्ठाभिस्पर्शनाद्धेतोः तद्वाणपातेनाशोषयत, राम इति शेषः । कुक्षि समुद्रकुक्षिं ततो मोक्षयित्वा पुरातनपापिष्ठानाभीरजनान्मोचयित्वा ॥ ३९-४१॥
For Private And Personal Use Only