SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir भयात् दण्डभयात् । पार्थिवात्मजेत्यनेन सर्वमर्यादास्थापकोऽसीति द्योतयति । न स्तम्भयेयं पीडाकरत्वादिति भावः ॥२६॥ तृतीयं तु पक्षं कक्षी करोमीत्याह-विधास्य इत्यादिसार्घश्लोकेन । येन यथाऽहं विपहिष्ये शक्ष्यामि तथा विधास्ये । किं तच्छक्यमित्यपेक्षायामाद अाहेत्यादि । यावत्सेना तरिष्यति तावत् ग्राहा न प्रहरिष्यन्ति । जलेऽपि हि केचिद्गमिष्यन्ति । हरीणां तरणे विषये । यथा स्थलं भवति यथा सेतुमार्गों भवति तथा करिष्यामि विधास्ये राम येनापि विषहिष्ये ह्यहं तथा । ग्राहा न प्रहरिष्यन्ति यावत् सेना तरिष्यति ॥ २७ ॥ हरीणां तरणे राम करिष्यामि यथा स्थलम् ॥ २८॥ तमब्रवीत्तदा राम उद्यतो हि नदीपते । अमोधोऽयं महाबाणः कस्मिन् देशे निपात्यताम् ॥ २९॥ रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम् । महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥३०॥ उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतमो मम । द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ॥३३॥ उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः । आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम ॥ ३२॥ सेतुबन्धद्रव्यापकर्षणादिविघ्नं न करिष्यामीत्यर्थः ॥ २७ ॥ २८॥ उद्यतः कृतसन्धानः ॥२९॥ महातेजाः स्वाभिमतलाभेन जनितकान्तिः ॥ ३० ॥ उत्तरेण समीपवर्तिन्युत्तरभागे । " एनबन्यतरस्यामदूरेऽपञ्चम्याः " इत्येनप् । ममावकाशः मध्यप्रदेश इत्यर्थः । पुण्यतमः चारुतमः । " पुण्यं| लातु चार्वपि" इत्यमरः । द्रुमेषु कुल्या यस्यासो द्रुमकुल्यः। "कुल्याऽल्पा कृत्रिमा सरित्" इत्यमरः॥३१॥ उग्रे दर्शनकर्मणी येषां ते उग्रदर्शनकर्माणः। लोभात स्वकीयवस्तुपरित्यागासहिष्णुत्वात् । रागादनुरागाच नकाकुलजलं न स्तम्भयेयं भयाद्वा न स्तम्भयेयम्, कथञ्चन अन्येन हेतुना न स्तम्भयेयम्, किन्तु अहमपि येन विषहिये यावत्सेना तरिष्यति तावद्ग्राहा अपि यथा सेना न प्रहरिष्यन्ति तथा विधास्प इति योजना ॥ २६ ॥ २७ ॥ तमेव प्रकारमाह-हरीणा मिति ! हरीणां तरणे विषये स्थलं यथा करिष्यामि, सेतुबन्धनसमये सेतुबन्धनसाधनखातमृद्दारुपर्वतादीनां निमजनं यथा न भवति तथा करिष्यामीत्यर्थः यद्वा सेनातरणमार्गप्रकाशनप्रकारमाह-न कामादित्यादिसार्धद्वाभ्याम् । कामात् यत्किश्चिद्वस्त्वभिलाषात नक्राकुलजल न स्तम्भयेयम्, लोभात स्वकीयवस्तुपरि त्यागासहिष्णुत्वान्न स्तम्भयेयम्, कथश्चन प्रकारान्तरेणापि न स्तम्भयेयम्, किन्तु हे पार्थिवात्मजेत्यनेन दशरयेऽवतीर्णेश्वरेत्युक्तं भवति । ईश्वरत्वादेव भयात त्वद्भयात् रागात त्वयि भक्त्या च वानररूपान्तरङ्गभक्तसहितत्वत्पादारविन्दरजोवहनभाग्यं मया लब्धमिति भक्त्या जल स्तम्भयेषमित्यर्थः । अब्रवीत्पाञलि वाक्यं राघवं शरपाणिनम् इत्युक्त्या भयान्मार्गप्रदत्वोक्तिः ॥ २८॥ उद्यतः संयोजितः ॥ २९ ॥ ३० ॥ उत्तरेणेति । उत्तरतीरसमीपदेशवर्तिद्रुमकुल्याख्योऽवकाशो देशः अस्तीति सम्बन्धः ॥ ३१ ॥ उप्रदर्शनकर्माणः उने दर्शनकर्मणी येषां ते तथा ॥ ३२ ॥ ३३ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy