________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथास्त्रसन्धानस्य मरकान्तारवर्तिनां युगपद्विनाशहेतुत्वात्तत्काले तदुचितमहोत्पातान् दर्शयति-तस्मिन्नित्यादिना । शरसन्धानकालिकं लोकस्य । भयं दर्शयतीत्यप्याहुः । रोदसी द्यावापृथिव्यो । सम्पफालेव भिन्न इव । एकवचनमार्षम् । " यावापृथिव्यो रोदस्यो द्यावाभूमी च रोदसी" इत्य मरः ॥६॥७॥ तिर्यक चेति श्लोकद्वयमेकान्वयम् । चन्द्रभास्करौ नक्षत्रैः सह तिर्यक वकं यथा भवति तथा सङ्गतौ तिर्यराजग्मतुः, भयादिति भावः।
तस्मिन विकृष्ट सहसा राघवेण शरासने । रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६॥ तमश्च लोकमावते दिशश्च न चकाशिरे। परिचुक्षुभिरे चाशु सर्रासि सरितस्तथा ॥ ७॥ तिर्यक च सह नक्षत्रैः सङ्गतौ चन्द्रभास्करो। भास्करांशुभिरादीप्तं तमसा च समावृतम् ॥८॥ प्रचकाशे तदाऽऽकाशमुल्काशतविदीपितम्। अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः॥९॥ पुस्फुरुश्च घना दिव्या दिवि मारुतपङ्क्तयः॥१०॥बभञ्जच तदा वृक्षान् जलदा
नुदहन्नपि । अरुजंश्चैव शैलायान शिखराणि प्रभञ्जनः ॥ ११॥ आदीप्तम् ईपदप्तिम्, मन्दरश्मित्वात्तमसावृतत्वाच सूर्यस्येति भावः । समावृतं सम्यगावृतम् । उल्काशतविदीपितम् । उल्कालक्षणमुक्तं वराहमिहि । रण-" उल्का शिरसि विशाला निपतन्ती वर्द्धते च तनुपुच्छा" इति । निर्घातलक्षणं तेनेवोक्तम्-" पवनः पवनाभिहतो गगनादवनो यदा समा पतति । भवति तदा निर्यातः स च पापो दीर्घखगविरुतः॥" इति ॥८॥९॥ पुस्फुरुः चेरुः । मारुतपङ्ख्यः आवहोरहादिवातस्कन्धाः। दिव्याः वाध्याः॥ १० ॥ उद्वहन् ऊच नयन् । शैलायान् पर्वताग्रप्रदेशान् । शिखराणि खण्डपर्वतान् । अरुजन् अपीडयत् । बहुवचनमार्षम् ॥११॥ शरं ब्राह्मणास्त्रेण ब्रह्मास्त्रमन्त्रेण संयोज्याभिमन्त्र्येति सम्बन्धः ॥ ५॥ रोदसी द्यावाभूमी ॥ ६ ॥ ॥ चन्द्रभास्करी नक्षत्रैस्सह तिर्यक सङ्गतो तिर्यग्यथा - तथा सङ्गती व्युत्क्रमेण पथा गन्तुमुपक्रान्तावित्यर्थः । “भास्कराशुमिरादीप्तं तमसा न समावृतम् " इत्यनेन विरुद्धयोस्तेजस्तिमिरयोस्सामानाधिकरण्य मदिति सच्यते ॥ ८॥९॥ मारुतपक्यः वातस्कन्धाः । पुस्फुरुश्चेति वा पाठः ॥ १०॥ शैलापान शैलोचनदेशान् ॥ ११॥
सम्-रोदसी गावापृथिव्यो । सम्पफाल विशीणें । एकवचनमार्थमिति नागोनिमहादयः । वस्तुतस्तु “रोदय रोदसी चापि दिवि भूमौ पृथक् पृषक् । सहप्रयोगेऽप्यनयो रोदः स्यादपि रोदसी" इति विश्वोक्तः । रोदसी तन्नग्यायेन यौः पृथिवी र । संपफाल विशीर्णेल्यर्थः । रोदसीत्यव्ययमध्यस्तीति भानुदीक्षितः ॥६॥ विषम-प्रास्फुटन् प्रचेलः । वमन चेति । मारुतपंक्तिरिति शेषः । उदहन, मावतसमूह रति शेषः।। भग्रेऽप्येष एवं कर्ता, शैलामान् पर्वतप्रदेशान् । बरुजन् अपीव्यत् । बगुवचनमार्थम् । शिवराणि सण्टपर्वतान् बमक्ष अत्यन्वयः ॥ १०॥ ११॥
१९०
For Private And Personal Use Only