________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
NI
वा.रा.भ.
॥
४॥
प्रथमं वानरसेनातरणाय सागरं शरणं गत्वा तस्मिन्ननागते चापमानयेति वाचा भीषयित्वा तथाप्यनाविष्कृतनिजरूपं तं शरैःप्रक्षोभ्य तावताप्यनागतस्य टी.यु.का. तस्य भीतिमुत्पादयितुं ब्रह्मास्त्रसन्धानायोपक्रमत इत्याह-अथेत्यादिना। सपातालं पातालपर्यन्तमित्यर्थः ॥ १॥ शरेति । शरनिधितोयस्य निर्जलस्येस. त्यर्थः । परिशुष्कस्य भूम्यन्तर्गतजलशून्यस्य । शोषितसत्त्वस्य दग्धसत्त्वस्येत्यर्थः। ते महान् पांसुः अतिसूक्ष्मो रेणुः उत्पद्यते । वर्तमानसामीप्ये| वर्तमानप्रयोगः। महावर्षेऽपि पुनर्यथा जललबोऽपि न तिष्ठति तथा करिष्यामीति भावः ॥२॥ ननु सकलजलशोषणेन पातालमात्रपारशोपात्तत्र गमना)
अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः। अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥ १॥ शरनिर्दग्धतोयस्य परिशुष्कस्य सागर । मया शोषितसत्त्वस्य पांसुरुत्पद्यते महान् ॥२॥ मत्कार्मुकविसृष्टेन शरवर्षेण सागर । पारं तेऽद्य गमिष्यन्ति पद्भिरेव प्लवङ्गमाः॥३॥ विचिन्वन्नाभिजानासि पौरुषं वापि विक्रमम् । दानवालय सन्तापं
मत्तो नाधिगमिष्यसि ॥४॥ ब्राह्मणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम् । संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः॥५॥ जासम्भवादाकाशेन गन्तव्यं ततो वरमिदानी तथा गमनं किं कोपेनेत्यवाह-मत्कार्मुकेति। शरवर्षेण शरजालेन सेतुस्थानीयेन । सेतुबन्धादिक्केशो मे न
भवतीति भावः ॥३॥पौरुषं बलं विक्रम पराक्रमं च विचिन्वन् विशेषेण पर्यालोचयितुं नाभिजानासि । “लक्षणहेत्वोः-" इति शतृप्रत्ययः । इद मज्ञानं सहवासकृतमित्याशयेन दानवालयति संबोधनम् । मत्तो भाविनं सन्तापं च नाधिगमिष्यसि न ज्ञास्यसि । मत्पराक्रममजानन् मत्तो भाविब्रह्मास्त्र पीडामपि न ज्ञास्यस्येवेति भावः ॥ ४॥ ब्रह्मदण्डः ब्रह्मशापः । तद्वदमोघमित्यर्थः । यद्वा ब्रह्मदण्डः केतुविशेषः । तथोक्तं नारदसंहितायां-"पितामहा |त्मजः क्रूरस्त्रिवर्णः शिखरान्वितः। ब्रह्मदण्डाह्वयः केतुः सर्वभूतविनाशनः॥” इति । ब्राह्मणास्त्रेण ब्रह्मास्त्रमन्त्रेण । संयोज्य अभिमन्न्य । तद्धनुर्विचकर्ष ॥५॥ Su१॥ शरनिर्दग्धतोयस्य शरवर्षेण शोषितस्य, तवेति शेषः ॥२॥३॥ विचिन्वन्निति । विक्रम जलोपरि शरसेतुबन्धनजलस्तम्भनतच्छोपणादिशक्तित्व रूपम् । विचिन्वन् विशेषेण पर्यालोचयन् । नाभिजानासि पौरुष शाखवश्यत्वसौजन्यनिवन्धनं शरणवरणरूपं पुरुषकृत्यं नाभिजानासि । मत्तो भाविनं सन्तापं नावगमिष्यसि न ज्ञास्यसि, सर्वशक्तरपि धर्मशीलतया शरणागतस्य फलप्रदानाभावे महाननों भविष्यतीत्यमुमर्थ न जानासीत्यर्थः ॥॥ ब्रह्मपण्डनिभा
||७४॥
For Private And Personal Use Only