________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नित्यभूतोपमा ॥ २८ ॥ तेजसा ज्वलन्त इत्यन्वयः । प्रविशन्ति प्राविशन् । त्रस्तपत्रगमिति क्रियाविशेषणम् ॥ २९ ॥ तोयवेगः तरङ्गविततिः । मारुत | रवः वातजन्यरवः । समारुतखः वातसङ्घट्टनजन्यरवसहित इत्यर्थः ॥ ३० ॥ तीरे महोर्मिमालाविततः । अन्तस्तरङ्गजालाकृष्टशङ्खशुक्तिसमावृत्तः । सज्वालशर प्रवेशेन सधूमः । मध्ये शराग्निशोषणेन परिवृत्तोर्मिश्चासीदित्यन्वयः ॥ ३१ ॥ व्यथिता इति। आपातालं शराः प्रविष्टा इति भावः ॥ ३२ ॥ ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः । प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् ॥ २९ ॥ तोयवेगः समुद्रस्य सनक्रमकरो महान् । सम्बभूव महाघोरः समारुतरवस्तदा ॥ ३० ॥ महोर्मिमालाविततः शङ्खशुक्तिसमावृतः । सधूमपरिवृत्तोर्मिः सहसाऽऽसीन्महोदधिः ॥ ३१ ॥ व्यथिताः पन्नगाश्वासन दीप्तास्या दीप्तलोचनाः । दानवाश्च महावीर्याः पातालतलवासिनः ॥ ३२ ॥ ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा । विन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः ॥ ३३ ॥ आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः । उद्वर्तितमहाग्राहः संवृत्तः सलिलाशयः ॥ ३४ ॥ ततस्तु तं राघवमुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम् । सौमित्रिरुत्पत्य समुच्छ्रसन्तं मा मेति चोक्त्वा धनुराललम्बे ॥ ३५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकविंशः सर्गः ॥ २१ ॥
तात्कालिकतरङ्गौन्नत्यं वर्णयति - ऊर्मम इति ॥ ३३ ॥ उक्तानुवादेन विशेषान्तरमाह-आघूर्णितेति । आघूर्णितसम्भ्रान्तोद्वर्तितपदान्यकार्थानि ॥ ३४ ॥ ततस्त्विति । तुशब्देन पूर्वसन्धानाद्वैषम्यमुक्तम् । अप्रमेयम् अपरिच्छेद्यवैभवम् । प्रकर्षमाणम्, अमोघशरसन्धानायेति भावः । समुच्छ्रसन्तम्, कोपे नेति शेषः । तं राघवम् । उत्पत्य झटित्यागयं । मा मेत्युक्त्वा एतादृशं धनुराकर्षणं मा कुर्वित्युक्त्वा । भयातिशयाद्वीप्सा । अनिवर्तमाने तस्मिन् धनुराललम्बे ॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्यानं युद्धकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥ करिष्यामि ॥ २५-२५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारूपायां युद्धकाण्डव्याख्यायाम् एकविंशः सर्गः ॥ २१ ॥
For Private And Personal Use Only