________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
इत्यनुषचनीयम् ॥ १७॥ मदाणनिर्भिन्नेः अत एव जलोपरि वद्भिः मकरैः। निरुद्ध तोयं व्याप्ततोयम् ॥ १८॥ भोगिनां महाकायानाम् । भूनि मतुप् । “भोगः सुखे स्थादिभृतावहेश्च फणकाययोः” इत्यमरः । नागानां सर्पाणाम् । महाभोगानि महाशरीराणि । वीवत्वमार्यम् । करिणां मत्स्यानां गजाकारमत्स्यानाम् । छिन्नानीति लिङ्गव्यत्ययेनानुपङ्गः । करान शुण्डादण्डान् । “मत्स्यविशेषो मकरः करिमकरो भवति तद्विशेषश्च " इति।।
अद्यमद्वाणनिभिन्नैर्मकरैर्मकरालयम् । निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः ॥१८॥ महाभोगानि मत्स्यानां करिणां च करानिह । भोगिनां पश्य नागानां मया छिन्नानि लक्ष्मण ॥ १९॥ सशङ्कशुक्तिकाजालं समीनमकरं शरैः। अद्य युद्धेन महता समुद्रं परिशोषये ॥२०॥ क्षमया हि समायुक्तं मामयं मकरालयः। असमर्थं विजानाति धिक् क्षमामीहशे जने ॥२१॥न दर्शयति साना मे सागरो रूपमात्मनः ॥२२॥ चापमानय सौमित्रे शरांश्चाशी
विषोपमान । सागरं शोषयिष्यामि पद्भया यान्तु प्लवङ्गमाः ॥२३॥ हलायुधः ॥१९॥ सशङ्केति । स्पष्टः ॥२०॥ क्षमेकसाराणां भवतामीदृशी फणितिरनुचितेत्याशङ्कयाह-शमयेति । सागरशोषणे प्रवृत्तोऽप्यतावत्पर्यन्तं क्षमया गृहीतचरणोऽस्मि । सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेन स्वरूप प्रकटयति मामिति । माम् इतरनरपेक्ष्येण स्थितम् । असमर्थ VIविजानाति कायंकरणाक्षम मन्यते । विजानाति मकरालयः । अयोध्याधिपतिः कोसलाधिपतिरितिवत् स्वमात्मानं मन्यते, कतिपयमीनग्रहणगत्त| इति न जानाति । चिकू क्षमाम् इतः परं क्षमा नाङ्गीकुर्मः । विनियोगकाले हि झमा स्वीकार्या। अद्य क्रोध एवाङ्गीकर्तव्यः । इक्ष्वाकां कदाचिदपि । क्षमा किं त्याज्यत्यत्राह इंदृशे जन इति । ईदृशे जने प्राप्तरक्षःसहवासदोपे ॥२०॥न दर्शयतीत्यधर्मकं वाक्यम् ॥२२ ॥ अपि कदाचिदात्मानं दर्शयेदिति करुणया समुद्रं वाचा निर्भप कर्मणाऽपि निर्भतयितुमुपक्रमते-चापमानयेति । एवं विलम्व्य करणं क्रमेण निर्भय कार्य कारयितुम् । अन्यथा सद्य एवं शोषयेत् । चापमानय निर्गुणं वशीकर्तुं सगुणमानयेत्याशयः । चापमानय अस्यानम्रत्वं निवर्तयितुं ननं चापमानय । भोगिनां महाशरीराणां नागानां साणां महाभोगानि महाभोगान् । लिङ्गव्यत्यय आर्षः ॥ १९ ॥ युद्धेन बाणप्रहारेण ॥ २०-२५ ॥
For Private And Personal Use Only