________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
प्रीतिमान् । सरितां पति स्वगोष्टयां कान्तापुरुषकारमुखेन समाश्रयणदर्शनात् स्वयमपि तथैवाचरदिति भावः ॥ ११ ॥ न च दर्शयते, आत्मानटी ..का. Mमिति शेषः । मन्दः अज्ञः । ननु रामेण सम्यक्कृता शरणागतिः कुतो न फलिता ? उच्यते-अनधिकारिणा कृतत्वात् ब्राह्मणकृतराजसूयवत् । स.
न च दर्शयते मन्दस्तदा रामस्य सागरः। प्रयतेनापि रामेण यथाईमाभिपूजितः ॥१२॥ समुद्रस्य ततः क्रुद्धोरामो रक्तान्तलोचनः । सगीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम् ॥ १३ ॥ अवलेपः समुद्रस्य न दर्शयति यत्स्वयम् ॥ १४ ॥ प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता । असामर्थ्य फलन्त्येते निर्गुणेषु सतां गुणाः ॥ १५॥ आत्मप्रशंसिनं दुष्ट धृष्टं विपरिधावकम् । सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ॥ १६ ॥ न साम्ना शक्यते कीर्तिर्न साम्ना
शक्यते यशः। प्राप्तुं लक्ष्मण लोकेऽस्मिन् जयो वा रणमूर्द्धनि ॥ १७॥ न च शरणागतावधिकारी रामः, अकिञ्चनो हि तत्राधिकारी ॥ १२॥ समुद्रस्य समुद्रविषये । सम्बन्धसामान्ये षष्टी । रक्तान्ते लोचने यस्य सः रक्तान्तलोचनः । अनेन मन्दकोपत्वमुक्तम् । शुभलक्षणं स्वस्य हृदयकोपमवगम्य कृतमन्दहासम् ॥ १३॥ अवलेप इति । स्वयं न दर्शयतीति यत् ॥ अयं समुद्रस्यावलेप इत्यन्वयः ॥ १४॥ प्रशमः अकोधता । क्षमा अपराधसहिष्णुता । आर्जवं परचित्तानुसारित्वम्, अकौटिल्यं वा । प्रियभापिता प्रियवादित्वमित्येते गुणाः निर्गुणेषु असामर्थ्य फलन्ति, असमर्थत्वबुद्धिं जनयन्तीत्यर्थः॥ १५॥ कं पुनः समर्थ निर्गुणो मन्यते ? तबाह-आत्मेति ।। आत्मप्रशंसिनम् आत्मस्तुतिपरम् । दुष्टं वञ्चकम् । धृष्टं निर्दयमित्यर्थः। विपरिधावकं सर्वपलायनकरम् । सर्वत्र सगुणेषु निर्गुणेषु च । उत्सृष्टदण्ड क्लप्तदण्डम् । लोकः अज्ञो जनः ॥१६॥ न सानेति । बलकृता प्रथा यशः। पराक्रमकृता कीर्तिः। जयो वेत्यत्रापि न साम्रा प्राप्तुं शक्यते मनुचितमिति यो धर्मः तस्मिन् वत्सलः । उपासत उपास्त ॥ ११॥ एवं यथाशास्त्रं शरणागतत्वेऽपि फलमदानाभिमुख्याभावात् सागरस्य सापराधत्वं दर्शयतिन च दर्शयत इति । न दर्शयते, आत्मानमिति शेषः ॥१२॥ समुद्रस्य समुद्राय क्रुद्धः॥ १३ ॥ अवलेप इत्यध भिन्नं वाक्यम् । स्वपमात्मानं न दर्शयतीति यत् ॥ अयं समुद्रस्यावलेपो गर्वः, श्यतामिति शेषः ॥ १४ ॥ प्रशमः चित्तप्रसादः।क्षमा अपराधसहिष्णुत्वम् । आर्जवं करणत्रयकरूप्यम् । प्रियवादिता चेत्येते। सतां गुणा निर्गुणेषु पुरुषेषु विषये असामर्थ्य फलन्ति, दुष्टजनाः सर्वशक्तियुक्तोऽपि प्रशमादिपरश्चेत् तमसमर्थ मन्यन्त इत्यर्थः । अतोऽयं दण्डस्यैव विषय इति भावः ॥ १५ ॥ विपरिधावकम् अमार्गवर्तिनम् ॥ १६ ॥ कीर्तिः गुणवत्ताप्रथा । यशः दानजनिता ख्यातिः॥ १७॥ १८॥
For Private And Personal Use Only