________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्भोगं कायमिव स्थितम् । सीताया उत्तमाङ्गेन शोभितं चेति योजना ॥ ५ ॥ संयुगे युद्धे । युगसङ्काशं गोपुरार्गलवत् प्रतिभटनिवारकम् । अत एव शत्रूणां शोकवर्धनम् । सागरोऽन्ते यस्यासौ सागरान्तः भूमण्डलम् तस्य व्यपाश्रयम् आलम्बनभूतम् ॥ ६ ॥ सव्यम् अप्रदक्षिणं यथा भवति तथा।। अस्यता इपून क्षिपता । स्वेनैव हेतुना ज्याघातेन करणेन विगतत्वचं ज्याकिणाङ्कितमित्यर्थः । महापरिघसन्निभम् उत्तमपरिघाख्यायुधवत् दृढम् ॥ ७ ॥ गोसहस्रप्रदातारम् करणे कर्तृत्वोपचारः । महद्भुजं भुजोत्तमम्। तथैव प्रायशः पाठः । आत्वाभाव आर्षः । एवंभूतं दक्षिणं बाडुमुपधाय । दक्षिणः संयुगे युगसङ्काशं शत्रूणां शोकवर्द्धनम् । सुहृदानन्दनं दीर्घे सागरान्तव्यपाश्रयम् ॥ ६ ॥ अस्यता च पुनः सव्यं ज्याघातविगतत्वचम् । दक्षिणो दक्षिण बाहुं महापरिघसन्निभम् ॥ ७॥ गोसहस्रप्रदातारमुपधाय महद्भुजम् । अद्य मे मरणं वाऽथ तरणं सागरस्य वा ॥ ८ ॥ इति रामो मतिं कृत्वा महाबाहुर्महोदधिम् । अधिशिश्ये स विधिवत् प्रयतो नियतो मुनिः ॥ ९ ॥ तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले। नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ॥ १० ॥ स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः । उपासत तदा रामः सागरं सरितां पतिम् ॥ ११ ॥ दाक्षिण्यवान् । महाबाहुः सर्वाभयप्रदः रामः, अद्य मे तरणं वा सागरस्य, मरणं वा भवत्विति मतिं कृत्वा । विधिवत् शास्त्रोक्तरीत्या । प्रयतः कायिक ॐ नियमयुक्तः । नियतः वाचिकनियमवान् । मुनिः मानसनियमोपेतश्च सन् । महोदधिमुद्दिश्या घिशिश्य इति योजना ॥ ८ ॥ ९ ॥ सुप्तस्य शयानस्य नियमादप्रमत्तस्य अत एवाप्रच्युतनियमस्येत्यर्थः । तिस्रो निशाः त्रीण्यहानि ॥ १० ॥ तिसृष्वपि रात्रिषूपासनमविच्छिन्नमित्याह स इति । त्रिरात्रो षितः त्रिरात्रं शयानः । तत्र समुद्रतीरे । सर्वशक्तेः कुत एवं निर्बन्ध इत्याशङ्कय धर्मप्रवर्तनार्थमित्याशयेनाह नयज्ञो धर्मवत्सल इति । शरणागतधर्मे सागरान्त व्यपाश्रयं सागरान्तं भूचक्रं तस्य व्यपाश्रयमाश्रयम् ॥३६॥ अस्पतेति । पुनर्मुहुर्मुहुः सव्यं यथा तथा अस्पता स्वेन कृता ये ज्याघाता स्तैर्विहतत्वचम्, ज्याघातकिणाङ्गितमित्यर्थः । जातरूपमयैर्भूषितमित्यादि भुजोत्तममित्यन्त विशेषणविशिष्टं दक्षिण बाहुमुपधाय रामः 'अद्य मे मरणं वाऽथ तरणं सागरस्थ इति मर्ति कृत्वा महोदधिमुद्दिश्य अधिशिश्य इति सम्बन्धः । विशेषणान्तरवेशिष्ट चकथनार्थमधिशिश्य इति पुनरभिधानम् । प्रयतः परिशुद्धः। मुनिः मौनी ॥ ७-९ ॥ अप्रमत्तस्य अस्खलितस्य ॥ १०॥ सः 'अङ्गुल्यमेण तान् हन्याम्' इत्यादिभिः प्रकटितवीर्यः । नयज्ञः आदौ साम प्रयोज्यमिति नीतिज्ञः । धर्मवत्सलः अनपराधिन्याक्रमण स०--अत्र बाहुं भुजगमोगाभमित्युपक्रम्य गोसहस्रप्रदातारमित्येतच्छ्रोकपर्यन्त प्रतिलोकं विशेष्येण वाह्रादिशब्देन भवितव्यमिति दर्शयितुं हुं भुजगभोगामं दक्षिण बाहुं भुजोत्तममिति त्रिवारमुक्तिः ॥ ७ ॥
For Private And Personal Use Only