________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रत्नमयः । एवकारों योगव्यवच्छेदार्थः । पुरा अयोध्यावासकाले अवतारात्पूर्व वा ॥२॥वरकाञ्चनेति परमनारीभुजविशेषणम् । भुजैः हस्तैः तदेकर देशलक्षणा । परमनारीणां सैरन्धिकाणाम् । अनेकधा नानालङ्करणादिषु चन्दनागरुकुङ्कुमप्रभृतिभिः बहुप्रकारेण । अभिमृष्टम् संमृष्टम् ॥ ३ ॥ अघि वासितं सातगन्धम् । बालसूर्येति विशेषणात् द्वितीयचन्दनशब्दो रक्तचन्दनपरः। तच्च कुङ्गमम् । “कुडमं घुमणं प्रोक्तं लोहितं रक्तचन्दनम् " इति हलायुधः। आदौ चन्दनागरुभ्यां चर्चितम् अथ कुड्डमैरिति बोध्यम् । कश्चिदाह-परमनारीणामित्यनेन सीताव्यतिरिक्ताश्च भार्याः सन्तीति । तन्नः
वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः। भुजैः परमनारीणामभिमष्टमनेकधा ॥३॥
चन्दनागरुभिश्चैव पुरस्तादधिवासितम् । बालसूर्यप्रतीकाशैश्चन्दनैरुपशोभितम् ॥४॥ नहि बालकाण्डे कुत्रचिद्रामस्य दारान्तरोदाहः प्रतिपाद्यते, प्रत्युत " रामस्तु सीतया सार्दै विजहार बहूनृतून् । मनस्वी तद्गतस्तस्या नित्यं हृदि । समर्पितः॥” इति सीतया सह निरन्तरभोग एवोच्यते । अत एव सीताप्याह "समा द्वादश तत्राहं राघवस्य निवेशने। भुनाना मानुषान् भोगान् सर्व कामसमृद्धिनी ॥” इति अत्यन्तसंयोगे द्वितीयया निरन्तरभोगम् । तत्कुतोऽस्य दारान्तरावकाशः ननु “रामस्य दयिता भार्या" इति विशेषणा द्रोहिणी यथेति ताराणामन्यतमया रोहिण्या दृष्टान्तीकरणाच्च भार्यान्तरं तस्य व्यज्यत इति चेन्नः दयितो भ्रातुरितिवदनुगमनानईत्वाय तथा विशेषि तत्वात् । किं भरतो रामस्य न दयितः?" तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ।" "न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः।" इत्यादि। विरोधात् रामवाल्लभ्यातिशयेन सौकुमार्यातिशयेन च राजगृह एवावस्थाय दिव्यसुखानुभवयोग्यावपि सीतालक्ष्मणौ राममनुगताविति हि तत्र मुनिहृदयम् । रोहिणी चेयमन्या, प्रसिद्धाया नित्यानुगमनासम्भवात् । ननु च "हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः। अप्रहृष्टा भवि प्यन्ति स्तुपास्ते भरतक्षये॥” इति स्नुषासाहचर्याद्रामस्य स्त्रियः पत्न्यो बह्वयः सन्तीति गम्यते । सुन्दरकाण्डेऽपि "स्त्रीभिस्तु मन्ये विपुलेक्षणाभि परकाश्चनेति । तदेव विशिनष्टि-भुजैरित्यादिना । भुजैः परमनारीणामभिमृष्टमिति रामस्यैकदारत्वात् परमनारीशब्देन श्रेष्ठपरिचारिका विवक्षिताः ।
स-परमनारीणां कौसल्यादीनाम् ! परमाश्च ते अरयो न मवन्तीति नारयो ब्रह्माद्या भक्ताः तेषाम् । अथवा स्वदत्तपारम्पो वरुणस्तस्य नार्यो गङ्गायाः वासा बाहुभिस्तरङ्गः । स्वेष्ववतारेषु रमाया अन्य बतारबाद्वविध्येन नारीणामिति बहुवचनयोधितबद्धविधता सम्भवतीति नैककामिनीवततोपहतिरिति ज्ञेयम् ॥ ३॥
For Private And Personal Use Only