________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥७
॥
स०२१
इत्यडभावः । जातोऽस्मि । एतस्मिन्नन्तरे जननमरणयोर्मध्यकाले । मया यदशुभं कृतं तत्सर्व निरपराधस्य मे घातयिता त्वम् उपपद्येयाः प्राप्नुहि ।। चदिति प्रसिद्धयर्थमव्ययम् ॥ ३५ ॥ नाघातयदिति । नाघातयधान्यवर्तयत् । मुच्यतां बन्धनान्मुच्यताम् । निर्यापणं तु दक्षिणकूले ॥३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने विंशः सर्गः ॥२०॥ नाघातयत्तदा रामः श्रुत्वा तत्परिदेवनम् । वानरानबवीद्रामो मुच्यतां दूत आगतः ॥ ३६॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे विंशः सर्गः ॥२०॥ ततः सागरवेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्य महोदधेः । बाहुं भुजगभोगाभ मुपधायारिसूदनः ॥१॥ जातरूपमयैश्चैव भूषणभूषितं पुरा ॥२॥ एवं प्रासङ्गिक परिसमाप्य एकान्तरितपूर्वसर्गान्तोदितकथाशेषमुपक्षिपति-तत इत्यादिसाईशोक एकान्वयः। ततः शुकमोक्षणानन्तरम् । सागर वेलायां शर्कराप्रचुरायाम् । दर्भान् शितायकुशान आस्तीर्य । राघवः सर्वशरण्यकुलप्रसूतः। महोदधेः अञ्जलिं कृत्वा भुजगभोगाभम् अहिकायवदति मृदुलं बाहुम् उपधाय उपधानीकृत्य । प्राङ्मुखः सन् प्रतिशिश्य। प्रतीत्यनेन तदानी सागराभिमुखमपरः सागर इव स्थित इत्यवगम्यते ।अरि सूदन इत्यनेन तादृशदशायामपि शत्रूणामधृष्यतया स्थित इत्युच्यते । अत्र विशेषणमहिना अतिसुकुमारस्य कथमतिकठिनावनितलशयनम्,अखिल रक्षकस्य कथमन्यतो रक्षापेक्षेति वाल्मीकेः खेदो द्योत्यते ॥१॥ अमुमेवार्थ प्रपञ्चयति सा सप्तश्लोकः-जातरूपमयरित्यादिभिः। जातरूपमयैः चकारात् प्रामुहीत्यर्थः ॥३४॥३५॥ नेति । मुच्यता दूत आगत इति बन्धमोक्षणं दक्षिणकूले ॥ ३६॥ इति श्रीमहे श्रीरामा० युद्धकाण्डव्याख्यायां विंशः सर्गः ॥२०॥ तत इत्यादि सार्धश्लोकमेकं वाक्यम् । अरिसदनो राघवः प्राङ्मुखस्सन् महोदधेरञ्जलिं कृत्वा भुजगभोगाभं बाहुमुपधाय प्रतिशिश्य इति सम्बन्धः । प्रति शिश्ये आभिमुख्येन शयितवान् ॥ १॥२॥ | स-सागरवेलायां समुद्रतीरे । महोदधेः अलि कृत्वा बद्न्या । प्रामुखस्सन् प्रतिशिश्ये । शयनप्रतिनिधि कृतवान् । प्रतिना निदोषस्य रामस्य स्वाभाविकी निद्रा न वक्तुं शक्येति तत्प्रतिनिधिभूतं चक्षु निमीलनमात्रमिति सुचपति ॥ १॥
॥
७
॥
For Private And Personal Use Only