SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir यदि रामसहाये स्थितोऽसि तार्ह ते जटायुषोऽवस्था स्यादित्यवाह-अवधीरिति । अर्द्धमेकं वाक्यम् । जरया वृद्धम् अत एवाक्षमम् असमर्थम् । जटायुष मवधीरिति यत्तत्र ते किं,वीर्यमिति शेषः। नाई तादृश इति भावः॥२८॥ भार्याहरणकाले किमप्यकुर्वन रामः किमिदानी कारष्यतीत्यत्राह-किन्विति । ते त्वया । सन्निधिरेख सान्निध्यम् । विशालाक्षीत्यनेन सीताहरणं रामस्यात्यन्तासह्यमित्युच्यते । गृह्य गृहीत्वा । न बुध्यसे, भाव्यनर्थमिति शेषः 19॥२९॥ न बुध्यस इत्युक्तं विवृणोति-महाबलमिति । महात्मानं महाबुद्धिम् ॥ ३०॥ तत इति । हरिसत्तमः इङ्गितप्रेक्षणादिज्ञ इति यावत् ॥३१॥ अवधीर्यज्जरावृद्धमक्षम किं जटायुषम्॥२८॥ किं नु तेरामसान्निध्ये सकाशे लक्ष्मणस्य वा। हृता सीता विशालाक्षी यां त्वं गृह्य न बुद्धयसे ॥२९॥ महाबलं महात्मानं दुर्द्धर्षममरैरपि । न बुद्धयसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति ॥३०॥ ततोऽब्रवीद्वालिसुतस्त्वङ्गदो हरिसत्तमः॥३१॥ नायं दूतो महाराज चारिक प्रतिभाति मे । तुलितं हि बल सर्वमनेनात्रैव तिष्ठता। गृह्यतां मा गमल्लङ्कामेतद्धि मम रोचते ॥ ३२ ॥ ततो राज्ञा समादिष्टाः समुत्प्लुत्य वलीमुखाः । जगृहुश्च बबन्धुश्च विलपन्तमनाथवत्॥३३॥ शुकस्तु वानरैश्चण्डैस्तत्र तैः सम्पपीडितः । व्याक्रोशत महात्मानं रामं दशरथात्मजम् । लुप्यते मे बलात्पक्षौ भिद्यते च तथाऽक्षिणी ॥३४॥ यां च रात्रि मरिष्यामि जाये रात्रिं च यामहम् । एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् । सर्वतदुपपद्येथा जह्या चेद्यदि जीवितम् ॥३५॥ नायमिति । चारिकः चारः । स्वार्थे ठक् । दूतो हि न वध्यः चारस्तु वध्य एवेति भावः । तुलितं तुलया मितम्, परिच्छिद्य ज्ञातमिति यावत् ॥ ३२॥ रामानु०-नायमिति । चारः चरणं तदस्यास्तीति चारिकः । "अत इनिठनी " इति ठन् । तुलितम् इयत्तया परिच्छिन्नम् ॥ ३२ ॥ राज्ञा सुग्रीवेण ॥ ३३ ॥ शुकस्त्वित्यादि सार्दशोक रकान्वयः । चण्डैः अत्यन्तकोपनैः । पितृसम्बन्धकीर्तने दया भवेदिति दशरथात्मजामित्युक्तम् । पक्षो पूर्वलुप्तशेषो॥३४॥ यामित्यादि साईशोक एकान्वयः । रात्रिशब्दोऽहोरात्रवचनः । यां च रात्रि यस्मिंश्च दिवसे मरिष्यामि । यस्मिश्च जाये अजाये । “ अनित्यमागमशासनम्" लप्यते इत्यादिश्लोकद्वयम् । यो च रात्रिमित्यत्र रात्रिशब्द: अहोरात्रवचनः । अहमेवं वानरपीढया यदि जीवितं जह्यां तदा यो च राहिं यस्यां राया जाये जातवानस्मि यो च रात्रिं यस्यां राया मरिष्यामि एतस्मिन्नन्तरे काले जन्ममरणयोर्मध्यवर्तिनि काले मया यवशुभं कर्म कृतम् तत्सर्वं त्वमुपपद्येयाः । For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy