________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
.१९॥
इत्यनेन प्रतिवचनानादाने मां हनिष्यतीति भावः ॥ २२ ॥ स एवमिति । लोके कश्चिदपिपतिरपि तजातीयो न भवति । तव्यावर्तनाय पूवङ्गमानापार मृषभ इत्युक्तम् । महाबलः तृणीकृतरावण इत्यर्थः । अदीनसत्त्वः अदीनमनस्कः। अत्र वंशस्थोपेन्द्रवजेन्द्रवज्रायोगादुपजातिवृत्तभेदः ॥२३॥ भ्रातृसमोऽसीत्यस्योत्तरमाह-न मेऽसीति । मे मित्रं नासीत्यर्थः । अनुकम्प्यः दयनीयश्च नासि । मे उपकर्ता च नासि । मे प्रियोऽपि नासि । अतःस.
स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः। उवाच वाक्यं रजनीचरस्य चारं शुकं तूर्णमदीन सत्त्वः ॥२३॥ न मेऽसि मित्रं न तथाऽनुकम्प्यो न चोपकर्ताऽसि न मे प्रियोऽसि । अरिश्च रामस्य सहानुबन्धः स मेऽसि वालीव वधार्ह वध्यः ॥ २४ ॥ निहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्ग रजनीचरेश। लङ्कां च सर्वी महता बलेन क्षिप्रं करिष्यामि समेत्य भस्म ॥२५॥ न मोक्ष्यसे रावण राघवस्य सुरैः सहेन्द्रैरपि मूढ गुप्तः । अन्तर्हितः सूर्यपथं गतो वा तथैव पातालमनुप्रविष्टः [ गिरीश पादाम्बुजसङ्गतो वा हतोऽसि रामेण सहानुज स्त्वम् ॥२६॥ तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् । त्रातारमनुपश्यामि न गन्धर्व न चासुरम् ॥२७॥ कथं प्रातृसमोऽसीति भावः। प्रत्युत मित्रशत्रुत्वाच्छचुरेवासीत्याह अरिश्चेति । ननु नोपकर्तृत्वादिना मित्रम्, किन्तु सख्युलिनो भ्रातृत्वादित्यत । आह स मेऽसीति । सः अरिभूतस्त्वमपि वालीव मे वध्योऽसि । अरिमित्रस्याप्यरित्वादिति भावः । इदमेव मनसि कृत्वोक्तं वधाईति। अनेन 'अहं यद्यदरं भार्याम्' इत्येतद्दत्तोत्तरम् ॥२॥ न हीयं हरिभिर्लङ्केत्यस्योत्तरमाह-निहन्मीति । ज्ञातिवर्गः कुम्भकर्णादिः। विभीषणस्तु न ज्ञातिरिति भावः। सुतादयः किमर्थ हन्तव्या इत्यपेक्षायां राजापराधादित्याह रजनीचरेशेति । बलेन सेनया ॥ २५॥ मयि लकास्थे खल्वेवं करिष्यसि स्थलान्तरं गमिष्यामीति शङ्कायामाह-न मोक्ष्यस इति । राघवस्य राघवातु । पञ्चम्यर्थे पष्ठी। मूढेति सम्बुद्धिः। सूर्यपथं सूर्यद्वारं गतः सन् अन्तहितोऽपि न मोक्ष्यसे ॥२६॥ त्रिदशेश्वरेऽपि त्रातुमनीश्वरे का वार्ता क्षुद्राणामित्याह-तस्यति । तस्य रामशरविद्धस्य ॥ २७॥ नेति । राघवस्य राधबात ॥२६-३३ ॥
स-गाधिपः एवमुक्तोऽभूत् । एवमुक्तः प्लवामानाभूषभः सुग्रीवः । रजनीचरस्य रावणस्य चार दूत दीनं शुकं प्रत्युवाच । प्रवगान् माधितः मनोव्यथातः पातीति वा । तथा प्लवशेष मानः चित्तोन्नतिर्यस्य सः लवामानः। स चासो न विद्यते भूषा मिष्यावचन येषां ते अमूषाः तेषाम इव मः, न्द्र रति यावत । “भः स्वान्मयूखे शके प" इति "मानचिचोलती" रति च विश्वः । बदीनसवः मदीनान्तःकरणः ॥२३॥
AT॥१९॥
प
For Private And Personal Use Only