SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir आजगामेति शेषः॥१४॥उपर्युपरि सागरं सागरस्याव्यवहितोपरि प्रदेशे। "उपर्यध्यधसः सामीप्ये" इति द्विवचनम् । आप्रेडितान्तत्वात् "उभसर्वतसोः-" इति द्वितीया ॥ १५ ॥ तमिति । प्रापयन्तं श्रावयन्तम् । प्रापद्यन्त पर्यवारयन् ॥ १६ ॥ निगृहीतः बद्धः ॥ १७ ॥ वानरेरित्यादि । दूतोऽप्यनुक्त स गत्वा दूरमध्वानमुपर्युपरि सागरम् । संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् । सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना ॥ १५॥ तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः। प्रापद्यन्त दिवं क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः ॥१६॥ स तैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः। गगनातले चाशु परिगृह्य निपातितः ॥ १७ ॥ वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् । न दूतान नन्ति काकुत्स्थ वार्यन्तां साधु वानराः ॥ १८॥ यस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रभाषते । अनुक्तवादी दूतः सन् स दूतो वधमर्हति ॥ १९॥ शुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम् । उवाच मा वधिष्ठेति घ्रतः शाखामृगर्षभान् ॥२०॥ स च पत्रलघुर्भूत्वा हरिभिर्दर्शिते भये । अन्तरिक्षस्थितो भूत्वा पुनर्वचनमब्रवीत् ॥२१॥ सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम। किं मया खलु वक्तव्यो रावणो लोकरावणः ॥२२॥ कारी वध्य एवेत्याशङ्कय नाहं तथा अनुक्तकारीत्याशयेनाह-यस्त्विति ॥१८॥१९॥ परिदेवितं परिदेवनरूपं वचनम् । मा वधिष्ठेति प्रत्येको त्यभिप्रायेणेकवचनम् । वाधिष्ठेतीत्यत्र आर्षः सन्धिः॥२०॥ पत्रलघुः लघुपत्रः। वानरैःप्रायेण लूनपक्ष इत्यर्थः । भये दर्शिते दार्शितेऽपि ॥२१॥ रामानु-पक्षलघुः पोर्लधुः । लूनपक्ष इति यावत् । दार्शितेभय इत्यत्र अभय इति पदच्छेदः ॥ २१ ॥ स्ववाक्यश्रवणाय सुग्रीवं प्रशंसति-सुग्रीवेति । लोकरावणः स गत्वेति । उपर्युपरि सागरं सागरस्य समीपोपरिप्रदेशे । रावणेनोक्तं सर्वमिदं वाक्यं यथाविष्टमब्रवीदिति सम्बन्धः ॥ १५ ॥ लोप्तुम, पक्षाविति शेषः॥१६-१९॥ परिदेवितं वचनं परिदेवनरूपं वाक्यम् ॥ २०॥ स च पक्षलघुरिति । पक्षलघुः, पक्षलघुः खनपक्ष इति यावत ।। २१-२५॥ स-पक्षलपुः कपिभिर्खतात्यपक्षः पूर्व भूत्वा अनन्तरं रामाश्या हरिभिरभये दर्शिते दत्ते सति पौः छिमग्ररुदैः लघुः शीघ्रगामी भूत्वेत्यर्थों वा । यत्तु बनपक्षत्येऽन्तरिक्षगमनासम्भवः । रामाशाननुमान प्रसाचेति कैचिदभिहितम, तत्तु शुकरूपस्य माविकत्वेन पक्षकोदेऽपि मायया पुनः प्ररोहणस्य सम्भवादन्तरिक्षगमनसम्भवेन रामाशातः पूर्वमेव कतिपयतालोपनेन तदाज्ञामजस्याप्यमान चायुक्तमिति शेषम् ॥२१॥ १८५ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy