________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६८ ॥
खा.रा.भू. अत्र रामविषये ॥ ८ ॥ शार्दूलस्येत्यर्द्धत्रयमेकान्वयम् । अर्थः कर्तव्यार्थः ॥ ९ ॥ भेदप्रयोगमुपदर्शयति-सुग्रीवमिति । मम वचनादब्रूहि मयोक्तमिति ब्रूहि । अक्कीबं सधाष्टर्यमित्यर्थः । श्लक्ष्णया पारुष्यरहितया । परया श्राव्यया ॥ १० ॥ वचनमेवाह - त्वमिति । वचनगाम्भीर्यः पञ्जनाय गुरुवृत्तारम्भः । हे महाराज । त्वं कुलप्रसूतः । सूर्यपुत्रत्वादिति भावः । तेन निष्कारणवैरं त्वया कर्तुमनुचितमिति व्यज्यते । महाबलः अल्पबलं राममवलम्बितुं नाईसी शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः । उवाच सहसा व्यग्रः संप्रधार्यार्थमात्मनः । शुकं नाम तदा रक्षो वाक्यमर्थविदांवरम्॥९॥ सुग्रीवं ब्रूहि गत्वा त्वं राजानं वचनान्मम । यथासन्देशमक्लीवं लक्ष्णया परया गिरा ॥ १० ॥ त्वं वै महाराज कुलप्रसूतो महाबलश्चर्क्षरजस्सुतश्च । न कश्चिदर्थस्तव नास्त्यनर्थस्तथा हि मे भ्रातृसमो हरीश ॥ ११ ॥ अहं यद्यहरं भार्या राजपुत्रस्य धीमतः । किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम् ॥ १२ ॥ न हीयं हरिभिर्लङ्का शक्या प्राप्तं कथंचन । देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ १३ ॥ सतथा राक्षसेन्द्रेण सन्दिष्टो रजनीचरः । शुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ १४ ॥
त्यर्थः । ऋक्षरजस्सुतः ब्रह्मपौत्रत्वेन मम बन्धुभूतोऽसीत्यर्थः । तव रामावलम्बने कश्विदर्थो नास्ति । अनवलम्बने अनर्थश्च नास्ति । अफलं वैरं तव नोचितमिति भावः । वालिसम्बन्धेन भ्रातृसमत्वान्मयैव प्रणयं कुर्वित्यभिप्रायेणाह तथा हीति ॥११॥ सीतापहरणमेव त्वत्कृतो महाननर्थ इत्यत्राह - अहमिति । राजपुत्रस्य तवेति पदाभ्यां नरवानरयोः कः सम्बन्ध इत्युक्तम् । घीमत इति सुग्रीवविशेषणम् । तत्र हरणविषये । किम् का हानिरित्यर्थः ॥ १२ ॥ “आन्धस्यान्तगमनम् " इति न्यायेन प्रकान्तं कार्य कथं त्यज्यतामित्यत्राह न हीति । उक्तमर्थ कैमुतिकन्यायेन द्रढयति- देवैरिति । अत्र नरग्रह णात् पूर्वार्धे हरिपदं नरोपलक्षकं बोध्यम् । त्वमेवामुमर्थमालोचयेति भावः । इयं लङ्का प्राप्तुं न शक्येत्युत्तरार्धेऽनुषज्यते ॥ १३ ॥ अम्बरमाप्लुत्य, त्वमिति । अर्थः उपकारः । अनर्थः अपकारः अर्थानर्थयोरभावेऽपि भ्रातृसमः ॥ ११ ॥ १२ ॥ मद्वचनमनादृत्यागतेनापि त्वया किमपि कर्तुं न शक्यमित्यादन हीयमिति ॥ १३ ॥ स तथेति । आप्लुत्य चाम्बरम् जगामेति शेषः ॥ १४ ॥
सत्वं मे भ्रातृसमः वालिरावणयोः सख्यान्मदनुजसम दत्युक्तिः । एवं देवाभिस्तुतया वाण्या वालिन इव रावणस्यापि बधो रामाद्भविष्यतीति सूच्यते ॥ ११ ॥
For Private And Personal Use Only
टी. यु.का.
स. २०
॥६८॥