________________
www.kobatirth.org
Acharya Shri Kalassagarsuri Oyanmandir
Shri Mahavir Jain Aradhana Kendra
अथ विभीषणनिर्गमनानन्तरं लङ्कावृत्तान्तं प्रस्तौति-तत इत्यादिना । निविष्टा समुद्रतीरस्थाम् । वजिनी सेनाम् । वीर्यवानिति दर्शनसाम पोक्तिः॥१॥चार इत्यादि साईश्लोकः । दुरात्मनः दुर्बुद्धः, अकाले चारप्रेषितरित्यर्थः ॥२॥ एष इति । अगाधः सेनापक्षे दुष्प्रवेश इत्यर्थः। अप्रमेयः अपरिच्छेद्यः ॥३॥ पुत्राविति । पदं स्थानम् प्रति आगतो॥४॥ एतावित्पईमेकम् ॥५॥ बलमिति । पूर्व सेनासनिवेशमात्रमुक्तम् ।
ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥१॥चारो राक्षस राजस्य रावणस्य दुरात्मनः। तां दृष्ट्वा सर्वतो व्यग्रं प्रतिगम्य स राक्षसः । प्रविश्य लङ्क वेगेन रावणं वाक्य मब्रवीत् ॥२॥ एष वानरऋक्षोधो लङ्कां समभिवर्तते। अगाधश्चाप्रमेयश्च द्वितीय इव सागरः॥३॥ पुत्री दशरथ स्येमौ भ्रातरौ रामलक्ष्मणौ। उत्तमायुधसम्पन्नौ सीतायाः पदमागतौ ॥४॥ एतौ सागरमासाद्य सन्निविष्टौ महा द्युती॥५॥बलमाकाशमावृत्य सर्वतो दशयोजनम् ॥६॥ तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि । तव दूता महाराज क्षिप्रमहन्त्यवेक्षितुम् ॥ ७ ॥ उपप्रदानं सान्त्वं वा भेदो वाऽत्र प्रयुज्यताम् ॥८॥ अत्र तद्विस्तार उच्यते । आकाशम् अवकाशम् । सर्वतः चतुःपार्थेषु । दशयोजनपरिमितमवकाशमावृत्य स्थितम् ॥६॥ तत्त्वभूतामिति । मया सामान्यतो ज्ञातं यथार्थभूतं यथा भवति तथा ज्ञातुमर्हसीत्यर्थः ॥७॥ उपप्रदानमित्यमेकं वाक्यम् । दण्डस्य त्ववकाश एव नास्तीति भावः ।
१॥ चार इति । सर्वतः सर्वा तां वानरध्वजिनीम् अध्यनं यथा तथा दृष्ट्वा वेगेन लङ्कामाविश्य राजानमब्रवीदिति सम्बन्धः ॥ २॥ एष इति सेनापक्षे अगायत्वं दुष्प्रवेशत्वम् ॥३॥ पुत्राविति । सीतायाः पदमागती सीतास्थानमुदिश्यागतो॥४॥ ५॥ बलं चेत्यव सत्रिविष्टमिति व्यत्ययेनानुषः। आकावामवकाशम् ॥१॥ पतित्वभूतमेतन्मदुक्तं यथार्थमित्यर्थः । समनन्तरकर्तव्यमेवाह तव दूता इति ॥ ७-१०॥
स०-सीतायाः पदं त्राणमुदिश्य अत्र वर्तत इति चिह ज्ञात्वा वा शब्द हनुमदोधित श्रुत्वा वा । " पद व्यवसितत्राणस्थानलक्ष्माविवस्तु " इत्यमरः ॥ १॥ उपप्रदानं सीताथा रामसमीपं गत्वा दानम् । सामवं सीतादाने विना अमूम्परानादिदानेन समाधानम् । मेदः मित्रमेदः । चतुर्थोपायभूतो दण्डस्तु रामसेनावलोकनानन्तरम् अयमशक्य इति शाईन नोग्न्यस्तः ॥ ८॥
For Private And Personal Use Only