SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चा.रा.भू. ॥ ६७ ॥ www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir देहकान्तिमान् । अन्यान्विहाय सुग्रीवं प्रति वन्दने हेतुः हरीश्वरमिति । सत्क्रियार्थे विभीषणमन्त्रबहुमानार्थम् । क्रियादक्षः स्वयं कार्यकरणसमर्थोऽपि ॥ ३७ ॥ ३८ ॥ पण्डितः मन्त्रसमर्थः । उभाभ्यामिति चतुर्थी । अर्थ प्रयोजनम् । सम्प्रधार्य निश्चित्य । यत्कार्यमुभाभ्यां रोचते तदुच्यतामिति सम्बन्धः ॥ ३९ ॥ समुदाचारः अअलिबन्धाद्युपचारः तत्संयुक्तमिति क्रियाविशेषणम् ॥ ४० ॥ अस्मिन्काले उपायमन्तरां दर्शनकाले । सुखावहम् विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते । ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ॥ ३८ ॥ सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः । उभाभ्यां संप्रधार्यार्थे रोचते यत्तदुच्यताम् ॥ ३९ ॥ एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ । समुदाचारसंयुक्तमिदं वचनमूचतुः॥ ४० ॥ किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव । विभीषणेन यच्चोक्तमस्मिन् काले सुखावहम् ॥ ४१ ॥ अवदध्वा सागरे संतुं घोरेऽस्मिन् वरुणालये । लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥४२॥ विभीषणस्य शूरस्य यथार्थं क्रियतां वचः । अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्य ताम् । यथा सैन्येन गच्छामः पुरीं रावणपालिताम् ॥ ४३ ॥ एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः । संविवेश तदा राम्रो वेद्यामिव हुताशनः ॥ ४४ ॥ इत्यार्षे श्रीरामायणे वाल्मी• श्रीमद्युद्धकाण्डे एकोनविंशः सर्गः ॥ १९ ॥ अयत्नेन कार्यसाधकम् । नौ आवयोः ॥ ४१ ॥ रामशरणागतेः फलं सेतुबन्धनमित्याशयेनाह - अवध्वेति । घोरे तिमितिमिङ्गिलादिसत्त्वाधिष्ठितत्वेन दुस्तरे । सेन्द्रैरिति । किंपुनरस्माभिरिति भावः ॥ ४२ ॥ शूरस्य मन्त्रशूरस्य । यथार्थे परमाप्तोक्तत्वादिति भावः । नियुज्यतां प्रार्थ्यताम् । यथेति । तथा नियुज्यतामिति पूर्वेणान्वयः ॥ ४३ ॥ संविवेश संवेशनमकरोत् । वेद्यामिव हुताशन इत्यनेन ज्वलिष्यमाणत्वं व्यज्यते ॥ ४४ ॥ इति श्रीगोविन्द राजविराचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥ स्मितपूर्वमुवाचेति सम्बन्धः ॥ ३७-३९ ॥ एवमिति । समुदाचारसंयुक्तं सोपचारमित्यर्थः ॥ ४०-४२ ॥ विभीषणस्येति । समुद्रोऽयं नियुज्यताम् समुद्रस्सेतुबन्धाय प्रार्थ्यताम् ॥ ४३ ॥ एवमिति । हुताशनदृष्टान्तेन ततेजोयुक्ततया कार्पण्पाभावः सूचितः ॥ ४४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तवद ख्यायां युद्धकाण्डव्याख्यायाम् एकोनविंशः सर्गः ॥ १९ ॥ For Private And Personal Use Only टी.यु.कॉ स० १९ ॥५७॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy