________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बुद्धिमन्तो भवन्त एव विचारयन्तोत्यत्राह-उपायं नाधिगच्छाम इति । सर्वे, वयमिति शेषः ॥ ३१ ॥ समुद्रमित्यर्धम् । लक्ष्मणव्यावृत्तये राजेत्युक्तिः ॥ ३२ ॥ शरणवरणं व्याजीकृत्य समुद्रः प्रत्यासक्त्यतिशयात्सब उपायं दिशेदित्यभिप्रायेणाह - खानित इति । खानितः, स्वपुत्रैरिति शेषः । न केवल मुत्पत्तिमात्रं तन्मूलम्, किंत्वतिशयोऽपि तदधीन इत्याह अप्रमेयो महोदधिरिति । सगरेण रामकूटस्थेन । महामतिः उपकारज्ञ इत्यर्थः ॥ ३३ ॥
उपायं नाधिगच्छामो यथा नदनदीपतिम् । तराम तरसा सर्वे ससैन्या वरुणालयम् । एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ॥ ३१ ॥ समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥ ३२ ॥ खानितः सगरेणायमप्रमेयो महोदधिः । कर्तु मर्हति रामस्य ज्ञात्वा कार्य महामतिः ॥ ३३ ॥ एवं विभीषणेनोक्तो राक्षसेन विपश्चिता । आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ॥ ३४ ॥ ततश्चाख्यातुमारेभे विभीषणवचः शुभम् । सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ॥ ३५ ॥ प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ॥ ३६ ॥ स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् । सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ॥ ३७ ॥
Acharya Shri Kalassagarsuri Gyanmandir
एवमिति । राक्षसेनेति स्थलज्ञतोक्ता । विपश्वितेति तात्कालिकबुद्धिमत्ता । आजगामत्यनन कालान्तर दशान्तर सुग्रावादिप्रश्न इति गम्यते ॥ ३४ ॥ ततश्चेति । विपुलग्रीव इत्यनेन कुतूहलित्वमुक्तम् । आरेभ इत्यनेन आरम्भमात्र एव सूक्ष्मज्ञतया रामेण सहसा सुग्रीवविवक्षितं ज्ञातमित्युच्यते । उपवेशनम् उपासनम् ॥ ३५ ॥ प्रकृत्येत्यर्द्धमेकं वाक्यम् | अरोचत तदुपवेशनमित्यनुषङ्गः ॥ ३६ ॥ स इति । महातेजाः तात्कालिक प्रकाशक
ॐ उपायेरिति । उपायैः कैश्चिदुपायैः नदनदीपतिमधिगच्छामः अधिगमिष्यामः । ससैन्याः सर्वे तरसा वरुणालयं यथा तराम तदृशोपायान् वदेति शेषः उपायं नाधिगच्छामः इति पाठे - ससैन्या नदनदीपति वरुणालयं यथा तराम तादृशमुपायं नाधिगच्छामः, न जानीम इत्यर्थः ॥ ३१ ॥ ३२ ॥ शरणवरण मात्रेण कथमसो कार्य करिष्यतीत्याशङ्कय कार्यकरणोपयुक्तं राघवसमुद्रयोः सम्बन्धं दर्शयति- खानित इति ॥ ३३ ॥ यत्र रामो वर्तते तं देशं लक्ष्मणस्तुग्रीव वाजगामेति सम्बन्धः ॥ ३४ ॥ ततश्चेति । सागरस्योपवेशनम् उपासनं राघवस्याप्यरोचत ॥ ३५ ॥ ३६ ॥ स इति । सत्क्रियार्थं लक्ष्मणसुग्रीवयोस्सम्मानार्थ
For Private And Personal Use Only