SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir दशकोटिसहस्राणि, सन्तीति शेषः॥१४॥१५॥ स तैरित्यर्द्धम्॥१६॥ न केवलं योधनम्, पराजिताश्च ते लोकपाला इत्याह-सह देवैरित्यर्धमेकं वाक्यम् ।। देवः लोकपालभिन्नैः। ते लोकपालाः । महात्मना महाधैर्येण ॥ १७॥ अन्वीक्ष्य आलोच्य । सर्वे कर्तव्याकर्तव्यम् ॥१८॥ यानीति । कर्मापदानानि "अपदानं कर्मवृत्तम्" इत्यमरः । करिकलभ इत्यत्रेव कर्मशब्दप्रयोगः । शौर्यकृतव्यापारा इत्यर्थः । अवगच्छामि अवधारयामीत्यर्थः ॥ १९॥ आलो । दशकोटिसहस्राणि रक्षसां कामरूपिणाम् । मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् ॥ १५॥ स तैस्तु सहितो राजा लोकपालानयोधयत् ॥ १६ ॥ सह देवैस्तु ते भग्ना रावणेन महात्मना ॥ १७॥ विभीषणवचः श्रुत्वा रामो दृढपराक्रमः ।अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥ १८॥ यानि कर्मापदानानि रावणस्य विभीषण । आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ॥ १९॥ अहं हत्वा दशग्रीवं सपहस्तं सबान्धवम् । राजानं त्वां करिष्यामि सत्यमेतद ब्रवीमि ते ॥२०॥ रसातलं वा प्रविशेत् पातालं वापि रावणः । पितामहसकाशं वा न मे जीवन विमोक्ष्यते ॥२१॥ अहत्वा रावणं सङ्घये सपुत्रबलवान्धवम् । अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैओतृभिः शपे ॥ २२॥ श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः। शिरसाऽऽवन्ध धर्मात्मा वक्तुमेवोपचक्रमे ॥ २३॥ चितमर्थमाह-अहमित्यादिना ॥ २० ॥ रसातलं भूविवरम् । पातालम् अधोलोकम् । पितामहसकाशं सवरप्रदसमीपम् । उपरितनलोकावधिभूतं सत्य। लोकं वा । मे मत्तः॥२१ । उक्तमर्थ व्यतिरेकमुखेन द्रढयन् सत्यमेतद्भवीमि त इत्युक्तं विवृणोति-अहत्वेति । सङ्घये युद्धे । तैः प्रसिद्धैः । भ्रातृभि रिति हेतुविवक्षया तृतीया ॥ २२ ॥ स्वानभिमतराज्यप्रदानप्रतिज्ञानात् वन्दनपूर्वकं स्वाभिमतं कैयमेव प्रयोजनान्तरनिवृत्तयेऽर्थयते-श्रुत्वेत्या दशकोटीति प्रधानराक्षसविवक्षया ॥ १५-२० ॥ रसातलं भूमिसन्निहितलोकम् । पातालम् अधोलोकावधिभूतं लोकम् । पितामहसकाशं ब्रह्मलोकम् । मे, पुरतः इति शेषः ॥ २१॥ अहत्वेति । तैस्सौधासम्पन्नतया प्रसिद्धः॥२२ ॥ २३ ॥ स०-रामप्रतिज्ञां श्रुत्वा विभीषणोऽपि प्रतिशृणोतीत्याह-वक्तुमेवेति । एक्कारेण सर्वस्वामिनो रामस्य साहाय्यकरणवचनमुपहास्यम् , तथापि लौकिकरोत्यनुपालनार्थमिदमिति सूचयति ॥ २३ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy