________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रामं पूर्व सुग्रीवादिपुरुषकारभूतान् प्रति, सम्प्रति शरण्यमेव । धर्मयुक्तं शरणागत्यानुकूलसङ्कल्पादिधर्मयुक्तम् । युक्तं समर्थकारुणिकशरण्याविषयतया योग्यम् । साम्प्रतं सम्प्रहर्षणम् पूर्व 'राघवं शरणं गतः' इत्युक्तिदशायां सुग्रीवादीनां श्रुतिकटुकं जातम्, इदानीं सर्वसम्पहर्षणम् ॥३॥ अनुज इति।। पूर्व निवेदयतेत्यत्र पुरुषकारभूतान् प्रत्युक्तम्, इदानीं साक्षाच्छरण्यं प्रतीति न पुनरुक्तिः। पूर्वार्धन स्वदोपख्यापनादाकिञ्चन्यमुक्तम् । सर्वभूतानां शरण्यं रावणस्यापि शरणं भवामीति कृतसङ्कल्पम् । भवन्तं ज्ञानशक्त्यादिपरिपूर्णम् ॥४॥ अनन्तरं प्राप्यान्तरनिरसनपूर्वकं त्वमेव प्राप्य इत्याइ
अनुजो रावणस्याहं तेन चाप्यवमानितः। भवन्तं सर्वभूतानां शरण्यं शरणागतः ॥४॥ परित्यक्ता मया लङ्का मित्राणि च धनानि वै । भवद्गतं मे राज्यं च जीवितं च सुखानि च ॥५॥
तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् । वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ॥६॥ परित्यक्तेति । लङ्का वासस्थानम् । मित्राणि सुहृदः । धनानि तद्वारा समागतानि, सोपाधिकानि वस्तूनि प्राप्यान्तराणि त्यक्तानीत्यर्थः । भवद्गतं । त्वदधीनम् । राज्यमिति सर्वपरिग्रहोपलक्षणम् । जीवितमिति धारकपोषकभोग्योपलक्षणम् । सुखानि ऐहिकामुष्मिकरूपाणि । इदं सर्व भवद्गतं भव कान्तर्गतम्, भवत्कय विना अन्यन्नाहमभ्यर्थयामीत्यर्थः ॥५॥ तस्येति । तस्य सर्वपरिग्रहत्यागपूर्वकं रामे न्यस्तभरस्य । तद्वचनं रामकेय मेव सकलभोग्यजातमिति वाक्यम् । सान्त्वयित्वा शरणं गत इत्युक्तिसमय एव स्वीकार्योऽसि एतावत्पर्यन्तं विलम्बः क्षन्तव्य इति सान्त्ववचनान्युक्त्वा । 'त्यक्त्वा पुत्रांश्च दाराश्च राघवं शरणतः' इत्यादि सुप्रीवादिसर्ववानरसन्निधौ कृतं प्रलपनं शरण्यरामप्रीतिवर्द्धनाय पुनरप्यनुसन्धत्ते-अनुज इति ॥ ४ ॥ परित्यक्तति । मे राज्यादिकं सर्व भवद्गतं वे भवदधीनमेव ॥ १-११॥
स-भवन्तं सर्वभूतानां शरण्यम् अनेनाप्रजस्य महादोहेण सहवासायोग्यतां स्वस्य श्रीरामे मगवदवतारतामतिं च सूचयति ॥४॥ मित्राणि पूर्व मिश्रवदनुकृतानि । पारल्यतानीति लिङ्गवचनव्यत्यासेन वा यस्यां मित्राणि धनानि च सा लङ्का परित्यक्तेति वाऽन्वयः । मे राज्यम् । जीवितं जीवनम् । मुखानि ऐहलौकिकानि पारलौकिकानि च भवतानि पूर्वस्मात्परित्यक्ता मया लकेल्यानं सवतेति विपरिणतेनान्वेति। परित्यक्तः भामयो रोगरूपी प्राकारायङ्गमङ्गकारित्वाद्रावणः यया सा लङ्का भवद्भता । एतेन एका मूलनगरौं स्थापयित्वाका सस्यास्विति रामेण गृहीत्वा राज्यप्रदानं नामिपेतं विभीषणेन रामवदान्यता नेति भावः ॥५॥
For Private And Personal Use Only