________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भ्यनुज्ञानानन्तरं शरण्यस्य शरणागतसङ्गमाविशेषं दर्शयति-तत इति । सुग्रीववचो निशम्य ततो हरीश्वरेणाभिहितं विभीषणेन सङ्गमं जगामेत्य न्वयः। अभिहितं हे विभीषण | राघवस्तवाभयं दत्तवान् राघवमुपयाहीत्येवं सुग्रीवोक्तम् । नरेश्वरः सङ्गमं जगामेति सङ्गमोऽपि कर्तुरीप्सिततमत्वकथनेन समस्यायं लाभ इति गम्यते । न त्यजेयं कथंचनेत्यादिभिः सुग्रीवादिवाक्यरूपविरोधिनिरसनपूर्वकं श्रीविभीषणस्वीकारं प्रतिश्रुत्य कथंचित्सुग्रीवादि वाक्यजनितं विलम्बमविपा त्वरया रक्षितुं स्वयमेव तेन सङ्गत इत्याह विभीषणेनाशु जगाम सङ्गममिति । आशु त्वरितम् । आश्रितसं शेषे स्वयं
वरातिशयवानिति भावः। पुरन्दरो यथा पतत्रिराजेन सङ्गमं स्वलाभममन्यत तथाऽयमपीति दृष्टान्ताभिप्रायः। यदा सुग्रीवस्य बुद्धिः पुनर्विपरीता लात्कार्यहानिरिति शीघ्रं जगाम ॥४१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टादशः सर्गः ॥१८॥
राघवेणाभये दत्ते सन्नता रावणानुजः। विभीषणो महाप्राज्ञो भूमि समवलोकयन् ।
खात्पपातावना हृष्टो भक्तैरनुचरः सह ॥१॥ एवं शरण्यस्य शरणागतसङ्गमरूपफलमुक्त्वा शरणागतस्य शरण्यसेवाख्यपुरुषार्थलाभमाह-राषवणेत्यादिसायश्लोक एकान्वयः । अभये स्वापेक्षिते । सर्वभूताभये दत्त । सन्नतः 'गुणेर्दास्यमुपागतः' इति न्यायेन पूर्वश्रुतेभ्योऽप्यधिकानां रामकल्याणगुणानां साक्षात्कारेण सम्यक्प्रहाभूताङ्गः । महाप्राज्ञः निरपायोपायपरिग्रहेण परमपुरुषार्थलाभावेदशास्त्राभ्यासातिशयजनितप्रज्ञातिशयस्य फलमिदानी निर्वृत्तमिति भावः । भूमि समवलोकयन् अन्तरङ्गसचिवसमूहसम्मर्दनिरवकाशेऽपि रामपुरोदेशे सचिवैरेव सयूथ्यतामापन्नस्य विभीषणस्य स्वपरिषन्मध्ये दत्तं भूतलावकाशं सम्यक्पश्यन् । खादवनी पपातेति प्राथमिको दूरप्रणाम उच्यते । प्रणामाद्ययोग्यस्थानमाकाशं परित्यज्य पाणिपादशिरप्रभृतिभिरष्टाङ्गैर्भूमि प्राप्तवानित्यर्थः ।। इत्यादि सुग्रीववचनं निशम्य ततः हरीश्वरेणाभिहितं विभीषणसङ्गमं जगामेति सम्बन्धः ॥४१॥ इति श्रीमहे श्रीरामा० युद्धकाण्ड अष्टादशः सर्गः ॥१८॥ राघवेणेति । सनतः स्वामिसन्निधौ पादपुरस्सरावरोहणमनुचितमिति मत्वा प्रहीभूतशिरस्कस्सन्नित्यर्थः । भूमिम् आनयनोयुक्त सुग्रीवादिभिरित आगच्छेति
सासनतः प्रवणः । सरस्वभाववारसामु नत इति वा । भूमि समवलोकयन, अवतरणायेति भावः। दृष्टः महालामो जात रति प्रीतमनाः । रामस्य पादयोः, मनेन म फेवलमयमम्मरचर ऐहिकफलावलम्बी। किन्तु मोक्षाज्ञानानन्दायर्थी चेति बपति । यथोक्तं वृहदारण्यकोपनिषद्भाष्ययोः "मुवारैति प्रतिष्ठे हे एते प्रतिछे हे एते अक्षरे" " स्वित्यानन्दस्समुदिष्टो वरिति ज्ञानमुष्यते । मोक्षदानेन तदानात्सुपरस्य पदद्वयम् ।
3
For Private And Personal Use Only