________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kasagarsur Gyanmandir
www.kobatirth.org
रा.भू.
टी.यु.का.
समाश्रितभयनिवारणं किमाश्चर्यम् । सत्पथे स्थितः, धर्मसंस्थापनार्थमेवावतीर्णस्य शरणागतरक्षणरूपविशेषधर्मानुष्ठानं नाश्चर्यमित्यर्थः । प्रपन्न । संरक्षणे धर्मज्ञत्वादिष्वन्यतम एव गुणः पर्याप्तः, किमुत सर्वेऽपि समुदिता इति भावः ॥३८॥ किमस्मत्प्रशंसनेन त्वन्मनःप्रवृत्तौ खलु विभीषणो ग्राह्यःस. १८ स्यात्तवाह-ममेति। मम 'वध्यतामेष तीव्रण दण्डेन' इत्युक्तवतोऽपि। न केवलमस्मिन्नर्थे मदन्तःकरणप्रवृत्तिरेकमेव प्रमाणम्, प्रमाणान्तराण्यपि सन्ती । त्याह अनुमानादिति । अनुमानात् त्वया हनुमता चोक्तयुक्तिकदम्बात् भावात् भावबोधकान्मुखप्रसादादिलिङ्गात् । सर्वतः सर्वत्र, अन्तर्बहिश्च ।
मम चाप्यन्तरात्माऽयं शुद्धं वेत्ति विभीषणम् । अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः ॥ ३९॥ तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव । विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः॥४०॥ ततस्तु सुग्रीववचो निशम्य तद्धरीश्वरेणाभिहितं नरेश्वरः । विभीषणेनाशु जगाम सङ्गमं पतत्रिराजेन यथा पुरन्दरः॥ ४१ ॥ इत्यार्षे
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टादशः सर्गः ॥ १८॥ इत्यर्थः । यद्वा अनुमानात् हृदयप्रकाशक पुखविकासादिलिङ्गात् । भावादार्तध्वनिप्रकाशितमृदुस्वभावात् । चशब्देन बध्यतामपीत्युक्तावस्थायां न त्यजेयमिति कालेऽप्येकरूपत्वं समुच्चीयते। सुपरीक्षितः संशयविपर्ययरादित्येन परीक्षितः। अन्तरात्मा अन्तःकरणम् । चापीति रामान्तस्करणसमु| चयार्थः ॥ ३९ ॥ पूर्वमानयनमिति नियुक्तमनुतिष्ठति-तस्मादिति । क्षिप्रं पूर्वमज्ञानवशान्मया पापमाचरितम् । तत्त्वविचारे त्वयं क्षणमात्रं विलम्बा, नई इति भावः । तुल्यो भवतु निवेदयत मामिति पुरुषकारकरणायाभ्यर्थितानां नृशंसानामस्माकं पुरुषकारत्वं सम्पादयितुमेव तवायं प्रयासश्च सिद्धः । इतः परमस्माभिः पुरुषकारव्यापारः क्रियत इत्यर्थः । एवं विभीषणस्य पुरुषार्थमर्थयित्वा तत्सख्यरूपं स्वेषां पुरुषार्थमर्थयते-विभीषण इति । महाप्राज्ञः फलसाधनोपयोगिज्ञानवान् । न केवलं ममैव, सर्वेषामिदं फलं समानमिति दर्शयितुं नः सखित्वमित्युक्तम् ॥४०॥ एवं सुहृत्तरसुग्रीवा रक्षणरूपविशेषधर्मानुष्ठानं नाश्चर्यमेवेत्यर्थः । प्रपन्नसंरक्षणे धर्मज्ञत्वादिष्वन्यतम एवं गुणः पर्याप्तः किमुत सर्वेऽपि समुदिताधेदिति भावः ॥३८॥ मम" बध्यतामेष तीत्रेण दण्डेन' इत्युक्तवतः अन्तरात्मा अन्तःकरणं विभीषणं शुद्धं वेत्ति । किवानुमानात त्वदुक्तयुक्तिसमूहावभावात् अभिप्रायवोधकमुखप्रसादालिङ्गात् । सर्वत अन्तर्बहिश्च सुपरीक्षितः शुद्धत्वेन सम्पनिश्चितः ।। ३९ ॥ ४०॥ तत इति । नरेश्वरः यथोक्तं यथावदुक्तं तद्वचनं 'मम चाप्यन्तरात्माऽयं शुद्ध वेत्ति विभीषणम्' स-हरीश्वरेण हनुमताऽभिहितं विभीषणेन सङ्गम समयं जगाम, मनसैति शेषः । पत्तत्रिराजेन गरूडेन पुरन्दरो यथा अमृतहरणकाले सक्ष्वं जगाम तबत् ॥१॥
For Private And Personal Use Only