________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मया मित्रभावेनैवालमिति मन्यमानेन अभयं दत्तम्, शरणशब्दश्रवणकाल एवेति शेषः । कथमानयेयमित्याकुलितं समाधत्ते विभीषणो वेत्यादिना। विभीषणोवा "विभीषणस्तु धर्मात्मा" इति विभीषणस्वीकारोधर्मवत्स्वीकारतया नोत्कर्षाय। रावणस्य नृशंसस्येति रावणस्वीकार एवोत्कर्षः स्यादिति । विभीषणस्वीकारे तत्परिकराश्चत्वार एव रक्षिताः स्युः। रावणस्वीकारे तु लङ्कास्थाः सर्वेऽपि रक्षिताः स्युरिति महान् लाभः । सुग्रीव । अस्माकमागतोऽतिशयो युष्माकं तुल्यः खलु, 'एकं दुःखं सुखं च नौ' इत्युक्तेः। यदि वा रावणः स्वयं यत्सम्बन्धेन विभीषणेऽप्यतिशङ्का स एवास्तु।
रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः । प्रत्यभाषत काकुत्स्थं सौहार्देन प्रचोदितः ॥ ३७॥
किमत्र चित्रं धर्मज्ञ लोकनाथ सुखावह । यत्त्वमार्य प्रभाषेथाः सत्त्ववान सत्पथे स्थितः ॥३८॥ स्वयम् सीतामपुरस्कृत्य स्वयमागतो रावणो वाऽस्तु । यद्वा स्वयम् अयं यदि विभीषणो न भवति किंतु कामरूपी रावण एव विभीषणभूमिका परिगृह्य यद्यागतः तथाप्यस्याभयं मया दत्तम् । त्वमपि रावणोऽयं न तु विभीषण इति विज्ञापनायापि पुननांगच्छेः, कित्वानयवेत्यर्थः॥३६॥अथ सुग्रीवः क्वचिदप्यसम्भावितं रामस्य शरणागते स्वस्मिश्च सौहादतिशयमालोच्य विस्मयपरखश आह-रामस्येति । सौहार्दैन प्रचोदितः सर्वानपि दोषाननालोच्य विपरीतप्रवृत्तान् पूर्वसुदो नानाप्रकारेरनुनीय 'यदि वा रावणः स्वयम्' इति वदतो रामचन्द्रस्य कोऽयं सौहार्दातिशय इति विस्मर येन प्रेरित इत्यर्थः॥३७॥ एवं विस्मयातिशयादतमुपकान्तो रामस्य स्वाभाविकान् कल्याणगुणौपानालोच्य सहजधर्मत्वादेतद्रामे नाश्चर्यकर। मित्याह-किमिति । धर्मज्ञ। धर्मसूक्ष्मतत्त्वज्ञस्य तव धर्मानुष्ठानं किमाश्चर्यम् । लोकनाथ भृत्यवर्गसंरक्षणं स्वामिनः किं चित्रम् । सुखावह स्वयमवाप्त समस्तकामत्वेन परप्रयोजनकपरायणस्य सर्वसुखकारिणस्तव शरणागतेषु समाश्रितेष्वस्मासु सुखकारित्वे को वा विस्मयः। आर्य समीचीनम् । सत्त्व वान् प्रशस्ताध्यवसायवान् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु'इत्यमरः। दृढव्रतस्य व्रतपरिपालन किमद्भुतम् । यद्वा सत्त्वं बलम्, सर्वशक्तेस्तव अभयं दत्तम्, त्वमपि रावणोऽयं न तु विभीषण इति विज्ञापनाय पुनः पुन गच्छे किन्त्वानयेवेत्यर्थः ॥३६॥३७॥ अथ सुप्रीवः कुत्रचिदप्यसम्भावितशरणागत रक्षणं स्वस्मिन् सौहार्दातिशयं चालोच्य विस्मयपरवश आह-किमत्रेति । धर्मज्ञ शरणागतरक्षणधर्मरहस्यज्ञ ! लोकनाथ सर्वजनस्वामिन् ! सुखावह सर्वजना नन्दकारिन ! त्वं सत्त्ववान् सत्त्वगुणेकनिष्ठः सत्पथे स्थितस्सन आय कल्याण प्रभाषेथा इति यत् अत्र किं चित्रम् ! धर्मसंस्थापनार्थमेवावतीर्णस्य तव शरणागत
१८०
For Private And Personal Use Only