SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir INI ६२ वा सकृदेव एकवारमेव । उपायान्तरेष्वावृत्तिः शास्त्रार्थः प्रपत्तौ त्वनावृत्तिः। “सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेत्ररम्" इत्युक्तेः। प्रपन्नाय "गत्या ज्ञानार्थाः" इति न्यायेनात्र मानसप्रपत्तिरुच्यते । तवास्मीति तु वाचिकी। उभयोरन्यतरेण युक्तायापीत्यर्थः । यद्वा प्रपनायेत्युपायः कथ्यते । तवास्मीति च याचत इति तच्छेषवृत्तिलक्षणफलविशेषप्रार्थना । ऐवम्भूतायाधिकारिणे । सर्वभूतेभ्य इति " भीत्रार्थानां भयहेतुः" इत्यपादानत्वम् । भयहेतुतया शङ्कितेभ्यः सर्वभूतेभ्यः । अभयं भयाभावं ददामि । अभयमेव मोक्षो नाम । “अथ सोऽभयं गतो भवति।आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति" इति ब्रह्मविद्याफलत्वेन श्रवणात् । एतत् तवास्मीति फलविशेषयाच्भेति पक्षस्यानुकूलम् । पक्षान्तरे त्रैवर्गिकफलानामप्येतदुपलक्षणम् । स्वस्य सकल आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया। विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ॥ ३६ ॥ फलप्रदत्वात् । एतद्वतं मम व्रतवदिदं कस्यांचिदपि दशायां परित्यागायोग्यमित्यर्थः। अबसर्वभूतेभ्य इत्यपि चतुर्थी । प्रपन्नसम्बन्धिभ्योऽपि सर्वभूतेभ्यो ऽभयं ददामि । “ पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥” इत्युक्तेः ॥ ३५॥ एवमुक्ते सत्यसम्भव दुत्तरं प्रशान्तप्रेमान्ध्यतया प्रसन्नमुखं विभीषणाभिमुखं सुग्रीवमालोक्य तमेव तदानयने नियुले-आनयनमिति । निवेदयतेति सपरिवारान युष्मान पुरुष कारतया वृतवन्तमेनं यूयमेवानयत तथा सत्येतावत्पर्यन्तमस्वीकारकृतदुःखमस्य निवर्तेत । हरिश्रेष्ठ । तस्य दुःखनिवृत्तये त्वमेव गत्वाऽऽनयसि न्मयि स्नेहवद्भयो हरिभ्यः श्रेष्ठं भवन्तमतिकम्य किमहं स्वीकरोमि । दत्तमस्याभयं मया अस्य स्वबन्धुत्यागपूर्वकं स्वनिकर्षकीर्तनपुरस्सरं चागतस्य तवास्मीति च याचते उभयोरन्यतरेणापि युक्तायेत्यर्थः । यद्वा प्रपन्नायेत्युपायः कथ्यते । तवास्मीति तच्छेषवृत्तिलक्षणा फलविशेषप्रार्थना । एवंविधायाधिकारिणे । सर्वभूतेभ्य इति " भीत्रार्थानां भयहेतुः" इति पञ्चमी । भयहेतुतया शङ्कितेभ्यो भूतेभ्यः ब्रह्मपर्यन्तसर्वभूतेभ्योऽभयं भयाभावं ददामि । अभयमेव मोक्षो नाम " अथ सोऽभयं गतो भवति, आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति" इति ब्रह्मविद्याफलत्वेन श्रवणातवास्मीति फलविशेषमामोति । पक्षस्यानुकूल पक्षान्तरं चातुर्वर्गिकफलानामप्यनदुपलक्षणम् । स्वस्य सकलफलप्रदत्वादेतव्रतं मम सत्यसन्धस्य कस्याश्चिदशायामपरित्यागयोग्यमादाय सिद्धं सदाचरण शीलमित्यर्थः । ददामीति वर्तमानप्रयोगेणाभयप्रदानस्य यावदात्मभावित्वं द्योत्यते ॥३५॥ स्वयं विभीषणो वा अन्यो वेति न ज्ञायते, कथमेवमविचार्याभयं दीयता Malइत्याशयाय विभीषणो वा भवतु यदि वा रावणो वा भवतु । राघवं शरणं गन इति वाक्य श्रवणानन्तरमेव अभयमस्मै दत्तम्, किं विचारेणेत्याह-आनयन मिति । अयं विभीषणो वा भवतु यदि वा रावणः स्वयम्, विभीषणवेषधारी तादृशापराधी साक्षाद्रावणो वा भवतु अरुप मया शरणागतरक्षणव्रतेकदीक्षादक्षण GG For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy