SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir तेनारक्षणेनैव स्वशत्रुसकाशाद्विनष्टश्चेत् तस्य अरक्षकस्य सम्बन्धि अनादिकालसञ्चितं सर्व सुकृतमादाय गच्छति । अस्यारक्षकस्य समार्जित सकलसुकृतक्षयो भवतीत्यर्थः ॥ ३० ॥ कण्डुवचनचतुःश्लोकीतात्पर्य सङ्ग्रहेणाह-एवं दोषो महानत्र प्रपन्नानामरक्षणे इत्यर्धेन ॥ ३१ ॥ विस्तरेणाहअस्वय॑मित्यादिना । अस्वाय स्वर्गविरुद्धम्, नरकहेतुभूतमित्यर्थः । अयशस्यम् अकीर्तिकरम् । बलवीर्यविनाशनम्, ययोःशारीरबलवीर्ययोः सतो रेव शरणागतो न रक्षितः तयोविनाशकमित्यर्थः । अत्र अरक्षणमिति विशेष्यमनुषज्यते ॥ ३२ ॥ एवं शरणागतरक्षणे कण्डुवचनं प्रमाणयित्वा धर्म एवं दोबो महानत्र प्रपन्नानामरक्षणे ॥ ३१ ॥ अस्वयं चायशस्यं च बलवीर्यविनाशनम् ॥ ३२ ॥ करिष्यामि यथार्थ तुकण्डोर्वचनमुत्तमम् ॥ ३३ ॥ धर्मिष्ठं च यशस्यं च स्वयं स्यात्तु फलोदये ॥ ३४॥ सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥ ३५॥ संस्थापनप्रवृत्तस्य ममैतदवश्यं पालनीयमित्याह-करिष्यामीति। उत्तम लोकादृतम् ॥ ३३ ॥ न केवलमकरणे प्रत्यवायबाहुल्यम्, करणे दृष्टादृष्टाभ्यु दया बहवः सन्तीत्यपि कण्डुवचनतात्पर्यमिति रामः स्वयमाह-धर्मिष्ठमिति । पापनिवर्तकधर्मोपेतत्वं विवक्षितम् । फलहेतुधर्मोपेतत्वस्य स्वयमित्य नेनेव सिद्धत्वात्। फलोदये फलप्रदानकाले समुपस्थिते । स्वयं स्वर्गहेतुरित्यर्थः । अब प्रतिपाद्यगतं धर्मिष्ठत्वादिकं प्रतिपादकवचने समुपचर्यते ॥३४॥ एवं " श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥” इति याज्ञवल्क्योक्तधर्मप्रमाणेषु श्रूयत इत्यनेन " तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति" इत्यादिना श्रुतिः, कण्डुगाथामुखेन स्मृतिः, कपोतादिना शिष्टाचार, प्रतिपक्षनिरसनपूर्वक बलवदुपपादनेन स्वप्रियवं चेत्येवं चतुर्यु प्रमाणेषु प्रपनरक्षणरूपपरमधर्मविषयेषु दर्शितेषु सम्प्रति तत्र प्रमाणं पञ्चमं दर्शयति-सकृदेवेति । विनष्टश्चेत्तस्यारक्षकस्य सम्बन्धि अनादिकालसचितं सर्व सुकृतमादाय गच्छति तत्प्राप्यपुण्यलोकान् स्वयमध्यास्ते ॥३०॥३१॥ अस्वयेमित्यादिसार्थ शोकमेकं वाक्यम् । कण्टोर्वचनम् । अस्वय॑म् अयशस्य बलवीर्यविनाशनं च, अरक्षितमिति शेषः। धर्मिष्ठं पापनिवर्तकधर्महेतुकम् । यास्य कीर्तिकरम् । फलोदये फलप्रदानकाले समुपस्थिते स्वार्य स्वर्गप्रदं च स्यात्, रक्षितुरिति शेषः । अतस्तद्वचनं यथार्थ करिष्यामि, कण्डुनोक्तप्रकारेणावश्यमातंरक्षणं करिष्यामीत्यर्थः । एवं धर्मशास्त्रप्रसिद्धं शरणागतरक्षणरूपं धर्ममवश्यमनुतिष्ठामीत्युक्तम् ॥ ३२-३४ ॥ तिष्ठतु नामैतत्, सर्वलोकस्वामिनस्सर्वलोकशरण्यस्य सर्वज्ञस्य सर्वशक्ते परमकारुणिकस्य ममानादिसङ्कल्पसिद्धतया सहजनतविशेषोऽप्यस्तीत्याह-सकृदेवेति। एकबारमेव प्रपन्नायेति गत्यर्थस्य पवेः ज्ञानार्थत्वान्मानसमपत्तिरुक्ता। PL For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy