________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kalassagarsu Gyanmandir
चा.रा.भू
हिलनादिरूपण शरणागतोऽस्मीति ब्रुवन् दृप्तः । परेषां शरणागतःसव्यतिरिक्तशरणागतः। यद्वा परेषामिति निर्धारणे षष्ठी। परेषां मध्ये शरणागतोऽरिःटी .यु. वरे हदि विद्यमानेपि शरणागतिशब्दमात्रमभिदधानः पुरुषः । कृतात्मना निश्चितमनस्केन, धर्मशास्त्रविश्वासशालिनेत्यर्थः । प्राणान् परित्यज्या रक्षितव्यः, अस्थिरान् प्राणान्परित्यज्य स्थिरं शरणागतरक्षणं कर्तव्यम् । कृतात्मनेति विशेषणेन विदुषोऽतिक्रमे दण्डभूयस्त्वमुक्तम् । शरणा गतरक्षणशास्त्रस्य निरवकाशत्वात् “सर्वथैवात्मानं गोपायेत्" इति शास्त्रस्य सावकाशत्वात् तव्यतिरिक्तविषयेऽप्यवस्थाप्यमिति भावः ॥२८॥
स चेद्भयादा मोहादा कामादापि न रक्षति । स्वया शक्त्या यथासत्त्वं तत्पापं लोकगर्हितम् ॥ २९ ॥
विनष्टः पश्यतस्तस्यारक्षिणः शरणागतः । आदाय सुकृतं तस्य सर्व गच्छेदरक्षितः ॥ ३०॥ एवं शरणागतरक्षणधर्मे चोदनामभिधाय तदरक्षणे प्रत्यवायमाह-प्स चेदिति । भयात् तदक्षणे तच्छत्रुसकाशात् तस्माद्वा । किरातन्यायेन स्वस्यापि भयमुत्प्रेक्ष्य ततो हेतोः। मोहात् शास्त्रार्थापरिज्ञानात् । कामात् स्वच्छन्दवृत्तिस्वाभाव्यात, तच्छउसकाशात्किचिल्लाभापेक्षणाद्वा । स्वया शक्त्या स्वकीयेन केनचित्सामर्थ्यप्रकारेण । स्वसहायसम्पादनस्वकीयद्रव्यदानादिना शरीरत्यागपर्यन्तेनोपायकलापेनेत्यर्थः। यथासत्त्वं। सत्त्वमनतिक्रम्य शक्तो सत्यामपि येन केनचिच्छलेन शक्तिवञ्चनामकृत्वा । तत् अरक्षणम् । पापं प्रत्यवायहेतुः । अनेन निरयडेतत्वमुक्तम् । न केवलं परलोकबाधकम्, इह लोकेऽपि सर्वजनगर्हितमित्याह लोकगर्हितमिति ॥ २९ ॥ न केवलमैहिकानहेतुत्वमात्रम् पूर्वसञ्चितसकलसुकृत। विनाशकमपीत्याह-विनष्ट इति । यः कश्चिद्यं कञ्चिच्छरणमागतः । तमरक्षिणस्तस्य पश्यतः रक्षकत्वेन बूते समर्थे च तस्मिन् पश्यति ।।
तः शरणागमनवेलायामपि गूढहदयतयाऽनुपशान्त शवभावः । अरिः कृतात्मनाप्राणानपि परित्यज्य रक्षितव्य इति सम्बन्धः ॥ २८ ॥ सः भयात्तद्रक्षणे शत्रो सकाशात्तस्माद्वा स्वस्यापि भयमुत्प्रेक्ष्य ततो हेतोर्वा मोहाच्छावार्थापरिज्ञानाद्वा कामात्तच्छरोस्सकाशात्किचित्फलापेक्षणाद्वा स्वया शक्त्या स्वकीयेन केन चित्सामध्येन सहायसम्पादनस्वकीयद्रव्यदानादिना वा यथान्यायं न्यायमनतिक्रम्य नरक्षति, शरणागतमिति शेषः। तत पापं तच्छरणागतारक्षणं पापं पापहेतुः। न केवलं पापदेता,इह लोकेऽपि सर्वजनगर्हितमित्याह लोकगर्हितमिति॥२९॥ न केवलमहिकामुष्मिकानहेतुत्वमात्रम्, पूर्वसवितसकलस्कृतविनाशकत्वमपीत्याइविनष्ट इति । यः कश्चित यं कमिच्छरणमुपगतः रक्षिणस्तस्य पश्यतः रक्षकत्वेन वृते समर्षे च तस्मिन पश्यत्येष तेनारक्षितः तदरक्षणेनेव स्वशत्रुसकाशाद।
॥
१.
For Private And Personal Use Only