________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
नीयत्वाय सङ्कचितशब्दां शृणु, इतः पूर्वमेतद्द्वाथानाकर्णनेन खलु त्वमेवमाविलात्माऽसि एनामवहितमनाः शृणु ॥२६॥ अथ कण्डुगाथायां चतुः श्लोक्यामाद्यश्लोकेन पूर्णप्रपत्त्यसिद्धावपि गत्यन्तरशून्यतया आत्मनिक्षेपाभिप्रायव्यअकशरणागतिशकलतुल्याञलिबन्धादिमात्रविधानमपि हानि नला नयेत् तत्करणमनुग्रहावहमित्याह-बद्धाञलिपुटमिति । अनुकूलबुद्धिवाग्वृत्त्यभावेऽप्यअलिमात्रमेवालम् । “अअलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी "IM इति स्वतन्त्रस्याप्याशु दयाजननी मुद्रा खल्वियम् । दीनम् एवमअलिबन्धमा विनापि कार्पण्यद्योतनावस्थानमेवालम् । याचन्तम् अञ्जल्याद्य
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् । न हन्यादानृशंस्यार्थमपि शत्रु परन्तप ॥२७॥
आतों वा यदि वा दृप्तः परेषां शरणागतः। अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥ २८ ॥ भावेऽपि कार्पण्याद्योतनेप्यहृदयप्रार्थनेवालम्। शरणागतम् अञ्जलिबन्धादित्रयेप्यविद्यमाने रक्षकनिवासस्थलाभिगमनमेवालम् । पूर्व स्वरक्षाभरनिक्षेपरूप । शरणागतिशकलान्युक्त्वा शरणागतमिति पूर्णप्रपत्तिरुक्तेति वा स्यात् । अपि शत्रं साक्षाच्छन्नुमपिन हन्यात् । अयं शास्त्रार्थ ऐहिकाभ्युदयार्थो वा पर लोकार्थों वा प्रत्यवायपरिहाराथों वेत्युक्ते सति तेभ्यः प्राक्प्रयोजनान्तरमाह आनृशंस्यार्थमिति । अघातुकत्वसिद्धयर्थमित्यर्थः। नृशंसोऽयमिलि लोकाप वादपरिहारार्थमिति यावत् । यदा आनृशंस्यं सकलधर्मसारभूतो दयागुणः तद्रक्षणार्य वा । यथोक्तं सीतया " आनृशंस्यं परो धर्मस्वत्त एवं मया श्रुतः" इति । परन्तपेति । कण्डुरपि कंचिद्राजानं प्रत्युक्तवानिति गम्यते । परन्तप ! शरणागते किं पौरुषप्रकटनेन प्रत्यर्थिषु खलु तत्कर्तव्यमिति । भावः ॥ २७॥ पूर्व न हन्यादिति स्वेन क्रियमाणं हननमा प्रतिषिद्धम् । अत्र स्वेतरक्रियमाणशरणागतपीडायामपि शरणागते आर्तत्वदृप्तत्व विभागात नालोचनेन प्राणान् हित्वा तद्रक्षणं कार्यमित्याह-आतों वेति । आर्तःसाभिमतसम्भवे विलम्बासमतीसंवेगवान वा, शरणागमनवेलायामपि स्वाप राधनिमित्तभयादिमान वेत्यर्थः । दृप्तस्तु विलम्बाविलम्बावनादृत्य फलसिद्धिमात्रसक्तः । अस्यां वेलायां विनयस्वापराधभयशून्यो वा। मुमुक्षुपक्षे |संसारजुगुप्सानुसन्धानेन सद्य एव देहनिवृत्तिकाम आर्तः। दृप्तः शरीरावसाने मुक्तिकामः। यद्वा आकिञ्चन्यानन्यगतित्वपुरस्सरं प्रपन्न आर्तः । स्तोम| त्याज्यत्वं परिहर्तु कण्डमहर्षिगीतगाथामाह-करित्यादि । धार्मिष्ठा धर्मपराम् । सत्यवादिनीमबाधितार्थप्रतिपादिनीम् ॥ २६ ॥ आनृशंस्यार्थमघानुकत्वसिद्धयर्थ । न इन्यादिति सम्बन्धः । परंतपेति कण्डरपि यं कश्चित्सम्बोध्योपदिशति ॥ २७ ॥ आर्त इति । परेषा शत्रूणां मध्ये आर्तः स्वाभिमते विलम्बाक्षमावान् ।
For Private And Personal Use Only