SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir कमनर्थमुत्पादयिष्यतीति प्रेमवशेन व्याकुलो विभीषणशरणागतेरेकस्याः सलक्ष्मणेन स्वेन क्रियमाणं शरणागतिद्वयं प्रबलमभिमन्यमानः शरणा गतिपूर्वकं विभीषणनिग्रहं प्रार्थयते-एवमित्यादिचतुःश्लोकः॥ १६ ॥ १७॥ राक्षस इत्यादि । अत्र मयि लक्ष्मण इति स्वस्य लक्ष्मणस्य चानर्थ कथनं स्वव्यसनादपि स्वाश्रितव्यसनं रामस्यात्यन्तारुन्तुदमिति तत्प्रदर्शनेन विभीषणापरिग्रहसमर्थनार्थम् ॥ १८॥ १९ ॥ एवमुक्त्वेति । मौनमुपा गमत्, प्रणयरोपादिति भावः ॥ २० ॥ अथ रामः स्वस्य सर्वशक्तित्वप्रदर्शनेन सुग्रीवस्यातिशङ्कां निवार्य शरणागतरक्षणरूपस्य स्वव्रतस्य धर्मशास्त्र राक्षसो जिमया बुद्धया सन्दिष्टोऽयमिहागतः । प्रहर्तुं त्वयि विश्वस्ते प्रच्छन्नो मयि वाऽनघ ॥ १८॥ लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह । रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः॥ १९॥ एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः । वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ २० ॥ सुग्रीवस्य तु तदाक्यं रामः श्रुत्वा विमृश्य च। ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् ॥ २१ ॥ सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः । सूक्ष्ममप्यहितं कर्तु ममाशक्तः कथंचन ॥ २२ ॥ पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् । अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ॥ २३॥ सिद्धत्वात्तस्यापरित्याज्यता प्रतिपादयति-सुग्रीवस्य वित्यादिना । विमृश्य मयि प्रेमातिशयेनैवमुक्तमिति विचार्य ॥ २१ ॥ सुग्रीवस्य भयं निवर्त यति-सुदुष्ट इति । स एष रजनीचरः सुदुष्टो वा अदुष्टो वा भवतु किं करिष्यति । तदेव विवृणोति-सूक्ष्ममिति । सूक्ष्ममपीत्यनेन साक्षान्मयि मदार श्रितेषु मत्सम्बन्धिसम्बन्धिष्वपि न शक्त इति भावः ॥ २२॥ कथं न शक्त इत्याकाङ्क्षायां स्वशक्तिं दर्शयति-पिशाचानिति । पृथिव्याम्, विद्यमाना विभीषणनिग्रहं प्रार्थयते-पवमुक्त इत्यादि मौनमुपागमदित्यन्तेन । अब मयि लक्ष्मणे वेति स्वस्य लक्ष्मणस्य च विभीषणेन करिष्यमाणानर्थकथनं स्वव्यसना लादपि स्वाश्रितव्यसनं रामस्यात्यन्तमरुन्तुदमिति मत्वा विभीषणेन करिष्यमाणानर्थमुक्त्वा तत्परिग्रहमसहमानः प्रणयरोषात मौनमुपागमदित्यर्थः ॥ १६-२०॥ अथ रामः स्वस्थ सर्वशक्तित्वप्रदर्शनेन सुग्रीवस्यातिशङ्का निवार्य शरणागतरक्षणरूपस्वमतस्य धर्मशाखसिद्धत्वात्तस्यापरित्याज्यता प्रतिपादयति-सुग्रीवस्य च त्विति । सुप्रीवस्य वाक्यं श्रुत्वा तद्विमुश्य । अस्यायमर्थः-प्रथमतः कृतविभीषणशरणागत्यपेक्षया पश्चात्कृतसुग्रीवलक्ष्मणशरणागतेील्यं च तस्मादपि वध्यं प्रपन्नं न प्रति प्रयच्छन्ति " इति श्रुत्यर्थानुसारिशरणागतरक्षणरूपस्वधर्म च पर्यालोच्येत्यर्थः ॥ २१ ॥ असौ राक्षसोऽन्ताप्रविष्टस्सन् अनवहिताया For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy