________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भू.
नात्मप्रशंसादोषः । यथा 'कृपावानविकत्थनः' इत्युक्तलक्षणेन धीरोदात्तेन दुष्यन्तेन " सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ ५८ ॥ इत्युक्तम् । यथा च हनुमता “पन्नगाशनमाकाशे पतन्तं पक्षिसेविते । वैनतेयमहं शक्तः परिगन्तुं सहस्रधा ॥” इति । दण्डिना च काव्यादर्श प्रथमपरि
च्छेदे - " स्वगुणाविष्क्रियादोषो नात्र भूतार्थशंसिनः । अपि त्वनियमो दृष्टस्तथा त्वन्यैरुदीरणात् ॥” इति । यद्वा पूर्वश्लोकार्थस्य भरतेऽतिप्रसङ्गं परि हरति--सर्व इति । तातेति सान्त्वोक्तिः । सर्वे भ्रातरः भरतोपमा न भवन्ति । कैकेयीवरप्राप्तं पित्रा दत्तमपि राज्यं परित्यज्य वनं गतं मामनुसृत्य तवैव एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः । उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ॥ १६ ॥ रावणेन प्रणिहितं तमवेमि विभीषणम् । तस्याहं निग्रहं मन्ये क्षमं क्षमवर्ता वर ॥ १७ ॥
राज्यं त्वमेव गृहाण, अहं त्वद्दास्यं करिष्यामीति वदन् भरतादन्यः कश्चिदस्ति किमिति भावः । एवंविधप्रसक्त्यभावालक्ष्मणस्यानुपादानम् । अत्र दृष्टान्तमाह मद्विधा इत्यादिना । मदिरहमात्रेण लोकान्तरं गतः पिता । तत्तुल्यपितृमानस्मत्सदृशः कश्चिदस्ति किमित्यर्थः । यद्वा मद्विधाः पितुः पुत्राः सन्तु वा मा वा भरतसमा भ्रातरस्त्वत्समाः सुहृदश्व न सन्तीत्यर्थः । सुहृदो वा भवद्विधाः । वर्षरात्रसमये स्थितेन मया अत्यन्तकुपितेन लक्ष्मणेन चात्यन्तं परुषमुक्तेऽपि अस्मासु प्रेमातिशयमेव प्रकटयन् त्वत्समः को वाऽस्तीति भावः । यद्वा मद्विधा वा पितुः पुत्रा न भवन्ति । निरतिशयपितृ वात्सल्यभूतोऽस्मत्तुल्यो नास्तीत्यर्थः ॥ १५ ॥ अथ सुग्रीवो नीतिमुखेन विभीषणस्य त्याज्यतां प्रतिपादयितुमशक्तः परिग्रहे चाविदितभावोऽयं रामे माशङ्कय परिहरति-न सर्व इति । सर्वे भ्रातरः भरतोपमा न भवन्ति । पितृदत्तराज्यमाप्तिसद्भावेऽपि तदनङ्गीकारेण ज्ञातित्वप्रयुक्तदोषं परिहृतवान् । राज्यप्राप्ति शङ्का गन्धमात्रस्याप्यसम्भवात् लक्ष्मणस्यानुपादानम् । ज्येष्ठत्वेन स्वस्यैव राज्यप्राप्तेरसाधारणत्वेऽपि पितृवचनगौरवेण कनिष्ठे भरते राज्यप्रदानात मद्विधा वा पितुः पुत्रा न भवन्तीत्युक्तवान् । भूतार्थकथनरूपत्वान्नात्मप्रशंसादोषः । तदुक्तं दण्डिना-" स्वगुणाविष्क्रियादोषो नात्र भूतार्थशंसिनः " इति । 'शङ्कनीय स्तु शोभनः' इत्युक्तदोषविषयशङ्का सुग्रीवस्य मा भूदिति सुहृदो वा भवद्विधाः इत्युक्तवान् । यद्वा मदिधा वा पितुः पुत्रास्तन्तु वा । भरतमा श्रातरः भवद्विधाः सुहृदश्च न सन्तीति सम्बन्धः ॥ १५ ॥ अथ सुग्रीवो नीतिमुखेन शरणागतविभीषणस्य त्याज्यतां प्रतिपादयितुमशक्तः परिग्रहे विभीषणोऽस्मासु कंवा अनर्थमुत्पादयिष्यतीति भिया एतस्य विभीषणस्य शरणागतेरुपेक्षया स्वेन लक्ष्मणेन च क्रियमाणं शरणागतिद्वयं प्रबलं मन्यमानः शरणागति पूर्वकं - इति मावः । लक्ष्मणस्य च स्वसमदमोदयेन सहैवावस्थानाद्राज्य प्राप्तेरहन्ता हेतोरभावेन चामुक्तिः नतु सौहार्दाविमर्देनेति हृदयम् आतृप्रस्तावे पितापुत्राचारोक्तिः प्रसङ्गसङ्गत्या सर्वे भ्रातरो भरतोपमा नेत्य नेन मारितता रमणस्य मन कीर्तनं मन्यमानस्तं सुमुखीकर्तुं सुहृद इत्यायुक्तिश्वेति ज्ञेयम् ॥ ११ ॥
For Private And Personal Use Only
टी.पु.क स० १५
।। ५८ ।।