________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इदमुत्तरम् । न वयमिति । न वयं तत्कुलीनाः राक्षसराज्यानहींः, अस्माकं तद्राज्ये आकासाभावात् । मम रावणस्येव तस्मिन्नरित्वशङ्काप्रसक्ति नास्ति । अतो नास्मान् त्यक्ष्यतीति भावः। किंच राक्षसो विभीषणस्तु राज्यकाङ्क्षी अस्मन्मुखेन रावणं पातयति । अतः स्वकार्यविघातभयादपि । नास्माकमपकारं करोतीत्यर्थः ॥ १२॥ ननु मूर्खा राक्षसाः कथमेवं विमृश्यकारिण इत्याशङ्कय नायं नियम इत्याह-पण्डिता इति । अर्धमेकं11 वाक्यम् । राक्षसा अपीत्यर्थः ॥१३॥ पुनरप्यस्य रावणेन विरुध्यागमनमेव प्रतिपादयन् परिग्राह्यत्वं निगमयति-अव्यया इति सार्घश्लोकेन । ते ज्ञातयः
पण्डिता हि भविष्यन्ति तस्माद्वाह्यो विभीषणः ॥ १३ ॥ अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति सङ्गताः । प्रवाश्च | महानेष ततोऽस्य भयनागतम् । इति भेदं गमिष्यन्ति तस्माद्वाह्यो विभीषणः ॥ १४ ॥ न सर्वे भ्रातरस्तात भवन्ति
भरतोपमाः । मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः ॥ १५॥ अव्ययाः प्रहृष्टाश्च सन्तः कदाचिदप्यन्योन्यसङ्गताः न भविष्यन्ति न भवन्तीति । अनेनैव हेतुना ज्ञातयोऽवसरे भेदं गमिष्यन्ति गच्छन्ति । अस्य च भीतस्यैव महान् प्रणादः श्रूयते । अतो बलीयसो रावणात् अस्य भयमागतं तेन च भयेनात्मत्राणार्थमागत इति परिग्राह्योऽयमित्यर्थः ॥ १४ ॥ ननु दुष्टोऽपि ज्येष्ठोऽनुवर्तनीय एवेत्याशङ्कय यद्यप्ययं धर्मः तथापि न सर्वत्र सम्भवतीत्याह--न सर्व इति । मद्विधा वा पितुः पुत्राः इति भूतार्थकथनत्वात्। नास्तीत्यतोऽयं परिग्राह्य इत्याह-यस्त्वित्यादिना । अरिबलस्य विभीषणस्य । यथाशाखं राजनीतिशास्त्रमनतिक्रम्य । नेति । न वयं तत्कुलीनाः । चकारात्माति देश्याश्च न भवाम इत्यर्थः । अतो नास्मानयं छिद्रेषु प्रहरति अस्मसापेक्षश्चायम्, यतो राज्यकांक्षी अस्मन्मुखेन रावणं घातयामीति वीक्षते। अतःस्वकार्यविधात भयादपि नास्माकमपकारं करोतीति भावः ॥ १२॥ ननु मूर्खा राक्षसाः कथमेवं विमृश्यकारिण इत्याशय नायं नियम इत्याह-पण्डिता हीति । राक्षसा अपि पण्डिता भविष्यन्ति तस्माद्विभीषणो ग्राह्य इति सम्बन्धः ॥ १३ ॥ पुनरप्यस्थ रावणेन विरुध्यागमनमेव प्रतिपादयन् परिग्राह्यत्वं निगमयति-अव्यप्राश्चेत्या दिना सार्धश्लोकेन । ते पण्डिताः ज्ञातयः अव्ययाः अपर्याकुलाः तुष्टाश्च सन्तः कदाचिदपि अन्योन्य सङ्गताः न भविष्यन्तीति अनेनैव हेतुना ज्ञातयोऽवसरे भेदं च गमिष्यन्ति । किव अस्य च भीतस्यैव महान प्रणादः श्रूयते । अतः बलीयसो रावणात अस्य विभीषणस्य भयमागतम् । तेन भयेन चात्मत्राणार्थमिहागतः, तस्मात्परिग्राह्यो विभीषण इत्यर्थः । प्रवादश्च महानेष इति पाठ तु-ज्ञातिभ्यो भवागमने अपवादश्च 'घोराः स्वार्थप्रयुक्ताश्च ज्ञातयो नो भयावहाः' इति हस्तिगीतादिरूपो लोकप्रवादोऽपीत्यर्थः ॥ १४ ॥ इत्युक्तप्रकारेण ज्ञातित्वमयुक्तदोषस्य शङ्कनीयत्वं शोभन इत्युक्तप्रकारेण राजदोषस्य च सार्वत्रिकत्व स०-प्रातः सौमात्र दुर्मिलमिति न वक्तुं युक्तम् । भरते भक्तिभारितता वयि स्वदनुभूतैप वर्तत इत्यतः काविक एवैरंभाचो भ्रात्रादि नित्याह-नेति । सर्वे भ्रातरो भरतोपमा न भवन्ति । स लोकविलक्षण
For Private And Personal Use Only