________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
14011
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
किंचित्, अर्थस्वरूपमिति शेषः । तदेवार्थस्वरूपं विशिनष्टि प्रत्यक्षमिति । प्रत्यक्षं दृष्टम् । लौकिकं लोकसिद्धम् । यत्सर्वेष्वपि राजसु विद्यते मे प्रति टी. यु.का. भाति च तत्सूक्ष्मतरं किंचिद्धर्मस्वरूपमस्तीति सम्बन्धः ॥ ९ ॥ तदेवार्थस्वरूपमाह-अमित्रा इति । तत्कुलीनाः ज्ञातयः । प्रातिदेश्याः समनन्तर | देशाधिपाश्च । व्यसनेषु समुपस्थितेषु प्रहर्तारः अमित्राः शत्रवः कीर्तिताः । तस्माद्व्यसन प्रहर्तृज्ञातित्वात् ॥ १० ॥ व्यसनिनं रावणं परित्यज्यागमने कारणान्तरमस्तीत्याह- अपापा इति । अपापास्तत्कुलीना नरेन्द्राः । हितान् हितपरान् । स्वकान् ज्ञातीन् मानयन्त्येव । तेषामपि नरेन्द्राणां
स० १८
अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्व कीर्तिताः । व्यसनेषु प्रहतरिस्तस्मादयमिहागतः ॥ १०॥ अपापास्तत्कुलीना श्च मानयन्ति स्वकान् हितान् । एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥ ११ ॥ यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च । तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु । न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः ॥ १२ शोभनो गुणवानेष ज्ञातिः प्रायः शङ्कनीयः । लोके पापभूयिष्ठतया शोभनोऽपि प्रायेण शङ्कनीयः । पापिनस्तु नरेन्द्रस्य तादृशो ज्ञातिः शङ्क नीय इति किमु वक्तव्यम् । अतोऽयं रावणेन शङ्कितस्तेन सह विरुद्धयैवागत इत्यर्थः ॥ ११ ॥ एवं रावणपरित्यागे हेतुमुक्त्वा स्वापरित्यागे हेतु वक्तुं प्रतिजानीते - यस्त्विति । अरिबलस्य विभीषणस्य दोषः 'को नाम स भवेत्तस्य' इत्यादिनोक्तः । तत्र विषये । यथाशास्त्रं नीतिशास्त्रमनतिक्रम्य । भ्रातृपरित्यागिविभीषणागमने नीतिशास्त्रानुसारं राजधर्मोऽस्तीत्याह-अस्तीति । अत्र विभीषणागमनरूपकायें प्रत्यक्षं परिदृश्यमानं लौकिकं लोकव्यवहारसिद्धं यद्राजसु विद्यते मे प्रतिभाति च तत्सूक्ष्मतरं किञ्चिदर्थरूपम् अस्तीति सम्बन्धः ॥९॥ तदेव प्रदर्शयति-अमित्रा इति । तत्कुलीनाः ज्ञातयः । प्रातिदेश्याः प्रति देशे वसन्तीति प्रातिदेश्याः, समनन्तरदेशवर्तिनो राजानश्च व्यसनेषूपस्थितेषु महर्तारः सन्तः अमित्राः शत्रव इति कीर्तिताः । तस्माद्व्यसन प्रहर्तृज्ञातित्वात् व्यस निनं रावणं प्रहर्तुमयं विभीषण इहागत इत्यर्थः ॥ १० ॥ एवं ज्ञातयो व्यसनेषु राजानं प्रहरन्तीत्युक्त्वा ये धर्मिष्ठा राजानो ज्ञातीन् परिपालयन्ति तेऽपि प्रज्ञाशौर्या | द्युन्मेषशालिनं ज्ञातिं शङ्खन्त इत्याह-अपापा इति । अपापास्तत्कुलीनाश्च नरेन्द्राः स्वकान् हितान् ज्ञातीन् मानयन्ति तेषामपि नरेन्द्राणां शोभनः प्रज्ञाशौर्या द्युन्मेषशाली ज्ञातिस्तु प्रायो बहुलं शङ्कनीय एव । पापकर्मणस्तु नरेन्द्रस्य तादृशो ज्ञातिरशङ्कनीय इति किमु वक्तव्यम् । अत्तरशङ्कितेन रावणेन सह विरुद्ध अयं विभीषणोऽत्रागत इति निश्चितार्थः ॥ ११॥ एवमुक्तप्रकारेण विभीषणस्य रावणपरित्यागे व्यसनिज्ञातिमर्तृत्वं शोभनज्ञातित्वं च हेतुद्वयमस्ति बान्धवपरित्यागे तु हेतुर्नास्तीति कृत्वा ' को नाम स भवेत्तस्य' इति सुग्रीवोक्तं न युक्तियुक्तमिति भावः । शत्रुसम्बन्धित्वमात्रमवलम्ब्यास्मिन् यो दोषः कथितः स दोषोऽप्यस्मिन्
For Private And Personal Use Only
।। ५७ ॥