________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अतिसाहसमेतदित्यत्यन्तं भीतभीत प्राह-सुग्रीव इति । आभाष्य अनूद्य । शुभतरं नीतिशास्त्ररहस्यमूलत्वात्स्वामिविषयप्रेमातिशयनिबन्धनत्वाञ्च शुभतरं वाक्यमुवाच । अत्र लक्ष्मणमित्युक्तत्वादुपसंहारे सहलक्ष्मण इत्युक्तत्वाच्चोभयोरपि वचनमुभावपिप्रति प्रतिवचनं च बोध्यम्॥४॥सुदुष्ट इत्यर्धमेकं| वाक्यम् । अस्माभिः पूर्वमुक्तैश्छिद्रान्वेषित्वादिदोषैर्युक्तो भवतु वा मा वा, कृतमः स एष रजनीचरः । किं किमर्थम् ? परित्याज्य एवेत्यर्थः ॥५॥
सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः॥५॥ ईदृशं व्यसनं प्राप्तंभ्रातरं यः परित्यजेत् । को नाम स भवेत्तस्य यमेष न परित्यजेत् ॥६॥ वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य च । ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् । इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः॥७॥ अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च । न शक्यमीदृशं वक्तं
यदुवाच हरीश्वरः ॥८॥ अस्ति सूक्ष्मतरं किंचिद्यदत्र प्रतिभाति मे। प्रत्यक्षं लौकिकं वापि विद्यते सर्वराजसु ॥९॥ रामानु० दुष्टत्वादुटत्योह्योऽयमिति वदन्त राम प्रति उभषयाऽपि त्याज्य इति सोपपत्तिकमाह-सुदुष्ट इत्यादिनः । सुदुष्टो वायदुष्टो वा एष रजनीचरः। किं किमर्थम् ? अनेन सायं प्रयोजन किमपि नास्तीत्यर्थः ॥ ५॥ कृतघ्नतामेवाह-ईदृशमिति । य बन्धुम् । एष व्यसने प्राप्ते न परित्यजेत्स कस्तस्य भवेत् न कोऽपीत्यर्थः । प्रातरं। परित्यजन् सर्वानपि परित्यजेदेवेति भावः। ईदृशं व्यसनम् लङ्कादहनपुत्रवधादिकमारभ्य समुद्रतीरनिवेशपर्यन्तं व्यसनमित्यर्थः ॥६॥ अथ सूक्ष्म ।। धर्मानभिज्ञस्य सुग्रीवस्य नीतिमर्यादयैवोत्तरं वक्तुमारभते-वानराधिपतेरिति । सार्दश्लोकः। ईषदुत्स्मयमानः धर्मरहस्यमिदं मम परमशक्तिं शरणागत संरक्षणवतं च सम्यगपरिज्ञाय यत्किचिद्वदत्ययमिति मन्दस्मयं कुर्वन् ॥ ७॥ प्रथमं तद्वचनमुपलालयति-अनधीत्येति ॥ ८ ॥अस्तीति । सूक्ष्मतरं सुदुष्ट इत्यादि सार्धश्लोकमेकं वाक्यम् । सुदुष्टो वा अस्माभिः पूर्वमुक्तच्छिद्रहर्तृत्वादिदोषयुक्तो वा । अदुष्टः उक्तदोषेरयुक्तो वा कृतघ्नस्स एष रजनीचर:, किं किमर्थम् ? परित्याज्य पवेत्यर्थः ॥५॥ कृतघ्नतामेवाह ईदृशामिति । यो विभीषणः ईदृशं व्यसनं प्राप्त भ्रातरं परित्यजेत् तस्य विभीषणस्य को नाम भवेत् न कोऽपीत्यर्थः।। ईशस्साक्षाज्येष्ठभ्रातपरित्यागी सर्वानपि व्यसने परित्यजेदिति भावः। यद्वा यः विभीषणः ईदृशं व्यसनं प्राप्त भ्रातरं परित्यजेत् त्यक्तवान् स एषः यं कमि त्यर्थः स एष विभीषणः कं न परित्यजेत् तस्य को नाम भवेत् । एवंविधमेनं को वा परिग्रहीयादित्यर्थः ॥६॥ अथ रामस्सुमीषवाक्यं श्रुत्वा तत्पशंसन् लक्ष्मणादी नवलोक्य राजनीतिमर्यादयैतद्वाक्यस्योत्तरं वकुमारभते-वानराधिपतेरित्यादिसार्धश्लोकदयेन । ईषदुत्स्मयमानः मम परमा शक्तिं शरणागतसंरक्षणवृत्तं च सम्यगरिजाप यन्किश्चिददतीति मन्दस्मितं कुर्वन्नित्यर्थः ।। ७॥८॥ अथ गमः स्वयुक्तरुपरि नीतिशास्त्रानुसारेण कल्पान्तरमारूढत्वात सुप्रीषवाक्यं प्रशस्य
१७
For Private And Personal Use Only