________________
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
Acharya Shri Kailassagarsur Gyanmand
डा.रा.भ. मत्प्राणपरित्यागे प्रस्तुतेऽपीत्यर्थः । किंच, दोपो यद्यपि तस्य स्यात अस्मदभिप्रायेण दोषो नास्त्येव अस्थानभवशतिनो भवतोऽमिता टी.यु.का. १५६प्रायेण तस्य दोषोऽस्ति चेत् स्यात् । अङ्गीकारेऽव्ययमिदम् । दोपभोग्यत्वरूपवात्सल्यैकस्वभावस्य मे आश्रितदोषो छुपादय इति भावः । सुकुमा.स.१८
पारस्य राजकुमारस्य सुगन्धिमूलमृल्छेशवदस्य दोपभोग्यत्वम् । यद्वा दोषो यद्यपि स्यात् तस्य शरणागतस्य न दोषः। " यथपाकातूलमन्ना प्रोतं प्रदूर्यतेवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इत्युक्तरीत्या दोषो न श्लिष्यदित्याशयः। यद्वा दोपो यद्यपि स्यात् स तस्य हि शरणागतिरूप निरतिशयगुणशालिनो दोषो न त्याज्यकोटिमाटीकते सुगन्धिमूलमृल्लेशवत् । यद्वा दोषो यद्यपि तस्य दोपोऽस्ति चेत्तत्सम्बन्धी खलु दोषः। सः
सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च । ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ॥ ४॥ तस्मादपि वाध्यः स्यात् । प्रार्थनायां लिङ । अस्माभिः प्रार्थितः खलु । गुणवान् रक्षितश्चेत् गुणवत्ताप्रतिकरः दोषवान् रक्षितश्चेदतिशयोऽस्माक मिति भावः। यद्वा दोषो यद्यपि अस्मद्भधापेक्षया तस्य स्यात् तस्यापेक्षितफलसिद्धिः स्यात् कपोतोपाख्यानानुगुणेयं योजनेति श्रीवत्साङ्कमिश्रा आहुः । कथं तर्खेतन्महामन्त्रिणो निन्दन्तीत्यत्राह-सतामेतदगर्हितम् । एतदाश्रितदोषाङ्गीकरणं सताम् अगर्हितम् अनिन्दितम् । अस्मत्पक्षपातिना। मस्थानभयशकिनां निन्दितत्वेऽपि परमार्थदर्शिनां कपोतादीनां च न निन्दितमिति भावः । यद्वा एवं दुष्टापरित्यागे प्रत्यवायपरिहारोवा पुरुषार्थसिद्धिवा पापक्षयो वेति चेन्नेतदित्याह-सतामिति । सद्रोष्ठीष्वस्मद्रहापरिहार एव फलं स्वमारणोद्योगवतामपि रक्षकाः कपोतादयः तेषामगाहतम् । यदा दुष्ट जनपरिग्रहस्य शिष्टगर्हितत्वाच्छास्त्रनिन्दितत्वाच्चायुक्तमित्याशङ्कय सत्यमेतदुष्टजनत्याज्यत्ववचनं सामान्यविषयम् । 'तस्मादपि वध्यं प्रपन्नं न प्रति प्रयच्छन्ति' इत्येवमादिशरणागतापरित्यागविषयविशेषशास्त्रस्य सद्भावात् । दुष्टस्यापि शरणागतस्य संरक्षणे शिष्टगहणा नास्ति प्रत्युत श्रय एवं | त्याह सतामेतदगहितमिति । एतत् दुष्टशरणागतपरिग्रहणम् । सतां सामान्यविशेषशास्त्रविदाम् । अगर्हितं गर्हितादन्यत्, पूजनीयमित्यर्थः । सर्व शतः काचिदशक्तिः, सर्वज्ञस्य किञ्चिदज्ञानं च मित्रभावनति शोकेन दर्शितमिति गोविन्दयतिनः प्रत्यवदन् ॥ ३॥ अथ सुग्रीवो रामप्रकृतिमाकण्य मादिशरणागतापरित्यागविषये विशेषशास्त्रस्य सद्भावात दुष्टजनस्यापि शरणागतस्य रक्षणे शिष्टगर्हणा नास्ति, प्रत्युत श्रेय एवेत्याह सतामेतदगार्हतम् । एतच्छरणागतदुष्टजनपरिग्रहणं सता सामान्यविशेषशास्त्रविदाम् अगर्हितम् गर्हितादन्यत, पूजनीयमित्यर्थः ॥ ३॥ एवं श्रीरामेण स्वमते कथितेऽपि सुग्रीवः पुनरपि विभीषणं प्रति शङ्कमानस्तत्परित्याज्यतामाह-सुग्रीवस्त्विति । तद्वाक्यं रामवाक्यम् । आभाष्य अनूद्य । ततः विमानन्तरम् ॥४॥
For Private And Personal Use Only