SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir मभिदधत्या "तेन मैत्री भवतु ते यदि जीवितुमिच्छसि" इत्युक्तम् । यद्वा मित्रभावेन मित्रत्वेन हेतुना। "सुहृदं सर्वभूतानाम् " इत्युक्तरीत्या अस्मदीयला सहजसौहार्द पुरस्कृत्येत्यर्थः । यदा मित्रभावेन आनुकूल्यसङ्कल्पादिपूर्वकमित्यर्थः। यद्वा मिताबायत इति मित्रम् । ईश्वरोपकारं परिच्छिद्य तत्सदृशो| पकारप्रवृत्तस्य भावनेत्यर्थः । यद्वा विश्वसनीयस्थलं मित्रम् "तन्मित्रं यत्र विश्वासः" इत्युक्तत्वात् । विश्वासिनो भावनेत्यर्थः । सम्प्राप्तं तस्याशालेश मात्रेण "हीरेषा हि ममातुला" इत्युक्तरीत्या मम तनिवासगमने प्राप्तेऽपि स्वयमेव प्राप्तं कथं त्यजेयम् । सम्प्राप्तं सम्यक्प्राप्तम् । पादुके द्वारि विन्यस्य देववन्दनकारिन्यायनान्यत्र चित्तप्राप्तिमन्तरेण "परित्यक्तामयालका मित्राणि च धनानि च" इति विरोधिनिवृत्तिपूर्वकं प्राप्तमित्यर्थः । यदा सम्प्राप्तं माता पिता भ्राता निवासः शरणं सुहद्वतिर्नारायण इति न्यायेन मयि त्यक्तसकलविषबन्धुभावमाचरन्तम् । यद्वा मदन्तरङ्गानुचरपुरस्कारेण प्राप्तम् । यदा।। सम्प्राप्त लङ्कायां स्थित्वा राघवं शरणं गतोऽस्मीत्युक्तं चेत् "अतन्द्रितचमूपति-" इत्यायुक्तन्यायेन मम तत्र गन्तव्यतायामपि तस्यागमनेन पनोरुपरि गङ्गानिपतनवदस्मत्प्रयोजनमेव कृतम् । सम्प्राप्त प्राप्तिरेवास्माकमपेक्षिता, न तु स्तुत्यर्चनध्यानप्रणामादिः। समित्यनेन मानसवाचिककायिकरूपपूर्ण| प्रपदनमुच्यते । न त्यजेयं त्यक्तुं न शक्नोमि । सर्वशक्तेरपि मम शरणागतशब्दश्राविणः परित्यागे शक्तिसम्भावनामपि न पश्यामीत्यर्थः । सम्प्राप्त न त्यजेयम्, “शरणागतसस्यमालिनीर्य वृषशैलेशकृषीवलं पिनोति" इत्युक्तरीत्या रक्षापेक्षा प्रतीक्षमाणोऽहं कथं सम्प्राप्तं त्यजेयम् । न त्यजेयं तत्स म्बन्धेन रावणविषयाकारापेक्षी कथं तमेव त्यजेयम् । अत एव हि घण्टाकर्णपक्षपातेन तदनुजस्यापि मुक्तिं ददौ । अत एव च मालाकारविषय पक्षपातेन युष्मत्सन्ततिजातानां दीर्घमायुभविष्यतीत्युक्तवान् । न त्यजेयम् आगमनमात्रेण श्लाघनीये त्यागसम्भावना कुतः ? सम्भावनायां लिङ्। त्यागसम्भावनायां खलु साधनोद्योगः। तस्य त्यागे स्वसत्ता चेत् साधनोयोगः स्यात् । सेव न निर्वहति कथमुद्योगः। तत्स्वीकारा। भावे स्वसत्ता न सिद्धयति चेत् तत्स्वीकारेऽस्मत्सत्ता न सिद्धयतीत्यस्मत्त्यागः स्यात् स कथमुपपद्यत इति चेत्तत्राई कथंचन | "अप्यह। जीवितं जह्याम्" इत्युक्तरीत्या नवप्रसववात्सल्येन वत्सला गौः पूर्ववत्सानिव युष्मानपि त्यक्ष्यामि न त्वाश्रितम् । यद्वा कथंचन सर्वदेशसर्वकाल सर्वावस्थास्वपीत्यर्थः। यद्वा कथंचन शरणागतस्य गुणाभावेऽपि दोषप्राचुर्येऽपि तत्परिग्रहस्य सर्वानभिमतत्वेऽपि दृष्टादृष्टानिष्टशतानुबन्धित्वेऽपि शरणागतस्य दोषो यद्यपि वस्तुतो दोष एव नास्ति । यद्यपि स्यात् भवेदस्तु नाम तथापि न त्यजेयमित्यर्थः । यद्वा यद्यस्मिन दोषो नास्ति भवेदपि तस्य दोष स्तस्यैव स्यात् तिष्ठतु तदोषोऽस्मान किं करिष्यतीति भावः। अतो मित्रभावेन सम्पाप्तमेनं कथञ्चन नत्यजेयमिति सम्बन्धः । ननु दुष्टजनपरिग्रहस्य शिष्टगर्दि तत्वाच्छास्त्रविरुद्धत्वादयुक्तमेतदित्याशय, सत्यमेवैतद् दुष्टजनत्याज्यत्वप्रतिपादकं शाखं सामान्यविषयम् " तस्मादपि वध्यं प्रपन्नं न प्रति प्रयच्छन्ति" इत्येव For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy