SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir JIYA वा.रा.भू. ॥५५॥ इति हेतुसाध्ये अपि दुष्टे। मारुतिमते तु परिग्राह्यत्वरूपे साध्ये समीचीनेऽपि निर्दोषत्वादिति हेतुरसमीचीनः। किंतु शरणागतोऽहमिति वाक्यप्रयोक्तृत्व मेव तत्र मुख्यहेतुरित्यभिप्रायेण मित्रभावेनेति हेतुनिर्देशः। मित्रभावन वास्तवमित्रत्वाभावेऽपि मित्रत्वाभिनयमात्रेणापीत्यर्थः। मित्रभावः शरणागत वटी ..का. त्वम् । “ राघवं शरणं गतः" "शरण्यं शरणं गतः" इति पूर्वोत्तरत्र च तस्यैव कथनात् । अन्यत्रापि-"विदितः स हि धर्मज्ञः शरणागतवत्सलः" इति शरणागतिशब्देनोपकम्य " तेन मैत्री भवतु ते यदि जीवितुमिच्छसि " इति मैत्रीशब्देन परिसमापनात् । यद्वा मित्रशब्दः वाभिप्रायेण शरणा गते गौरवारोपायुज्यते । न त्यजेयं त्यक्तुं न शक्रोमि । सर्वशक्तेरपि मम शरणागतशब्दश्राविणः परित्यागे शक्तिसम्भावनामपि न पश्यामत्यिर्थः । कथंचन दृष्टादृष्टानर्थशतानुबन्धित्वे तत्परिग्रहस्य सुहृदामनभिमतत्वे मत्प्राणपरित्यागे प्रस्तुतेऽपीत्यर्थः। दोषो यद्यपि तस्य स्यात् यद्यपि सुग्रीवा दिभिरुक्ता दोषा नास्मिन् सन्ति, सन्तु वा ततोऽपि भूयांसः। अथाप्यशक्यमहं कथं करोमीत्यर्थः । स्याच्छन्दः दुष्टोऽपि शरणागतशब्दप्रयोक्ता मया परिगृहीत इति मम महद्यशो भवेदित्येवमर्थम् । अदुष्टपरिग्रहे गुणो मन्दः, दुष्टपरिग्रहे तु मम शरणागतरक्षणधर्म उत्तेजितो भवतीति भावः। करुणया दुष्टपरिग्रहे शिष्टगर्दा स्यादित्यत्राह सतामेतदिति । एतदुष्टस्यापि शरणागतस्य सङ्ग्रहणम् । सतां शिष्टानाम् । अगर्हितं गर्हितादन्यत्, पूजितमित्यर्थः । पूजितत्वं च कपोतोपाख्यानादिभिः प्रपञ्चयिष्यते । एवं च शास्त्रेषु दोषाणां परित्यागहेतुत्वोक्तिः शरणागतव्यातरिक्तविषयति विषय व्यवस्थाऽभिप्रेता। अत एव दोपाधिक्येन वधाईस्यापि शरणागतस्य रक्षणमेव कार्यमिति श्रुतिराह" तस्मादपि वध्यं प्रपन्नं न प्रति प्रयच्छन्ति" इति । आचार्ययोजना-मित्रस्य स्नेहिनोभावो मित्रत्वम्, तेन आशालेशमात्रेण । अद्वेषमाभिमुख्यमा वा अस्मदगीकारे प्रयोजकम् न तु पूर्णभक्तिरिति । भावः। तथोक्तम् “ त्वामामनन्ति कवयः करुणामृताब्धे ज्ञानक्रियाभजनलभ्यमलभ्यमन्यैः । एतेषु केन वरदोत्तरकोसलस्थाः पूर्वं सदूर्वमभजन्त हि जन्तवस्त्वाम् ॥” इति । यद्वा मित्रभावन मित्रकियया। "भावो लीलास्वभावयोः । जन्वभिप्रायचेष्टासु भूतौ विद्वत्पदार्थयोः । क्रियायामात्मनि" इति । नानाथरत्नमाला । मित्रभावनयेति यावत् । अहृदयशरणोक्त्येत्यर्थः। तदप्युक्तम् “शरणवरणवागियं योदिता न भवति बत सापि धीपूर्विका" इति। शरणागतभावेनेति वक्तव्ये मित्रभावेनेत्युक्तिः स्वाश्रयणाय कतिचित्पदानि कुर्वत्यपि स्वसदृशबुद्धिकारिणो भगवतोऽभिप्रायेण । देव्यापि शरणागति ॥५६ ॥ कथनेन स्वमतं दर्शयति-मित्रेति । मित्रभावेन वास्तवामित्रस्वभावेनापि मित्रत्वाभिनयमात्रेण संप्राप्तं कथञ्चन न त्यजेयम्, सर्वदेशकालावस्थास्वपि त्यक्तुं न शक्नुया मित्यर्थः । ननु स्वस्मिन शरणागतभूमिकामारोप्य शत्रुपक्षादागतोऽयं दुष्ट एव कथमेनमवलम्बस इत्याशयाह-दोष इति । दोषो यद्यपि तस्य शत्रुपक्षादागतस्य For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy