________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निगमयति-यथाशक्तीति । यथाशक्ति बुद्धिशक्तिमनतिक्रम्य । आर्जवं निर्दोषत्वम् । मद्वाक्यं श्रुत्वा यत्कर्तव्यमकर्तव्यं वा तस्य सर्वस्य त्वं तु त्वमेव ॐ प्रमाणं प्रमातेत्यर्थः ॥ ६४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥ एवं सुग्रीवादिभिः स्वस्वमते प्रतिपादिते स्वाभिमतमपि राम्रो वकुं प्रारभते - अथेति । वायुसुतस्य वचनमिति शेषः । प्रसन्नात्मा सुग्रीवादिवाक्यैः कलुषीकृते मनसि सति हनुमद्वाक्येन प्रसन्नमनाः । दुर्धर्षः पूर्वपक्षैरक्षोभ्यः । तत्र हेतुमाह श्रुतवानिति । वसिष्ठादिभ्यः श्रुतकपोतकण्डूपाख्यानादिमान् ।
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह । प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ॥ १ ॥
ममापि तु विवक्षाsस्ति काचित्प्रति विभीषणम् । श्रोतुमिच्छामि तत्सर्वे भवद्भिः श्रेयसि स्थितैः ॥ २ ॥ मित्रभावेन सम्प्राप्तं न त्यजेयं कथंचन । दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आत्मनि स्थितं चित्तावस्थितम् ॥ १ ॥ सर्वमतप्रतिक्षेपरूपेण स्ववाक्येन किमेते व्याकुलितमनसो भवेयुरिति शङ्कया रामः सचिवानुपच्छन्दयति-ममा पीति । तुशब्दः पक्षान्तरखद्धनुमत्पक्षमपि व्यावर्तयति । ममापि विभीषणं प्रति काचियुष्मत्पक्षैः सह परिगणना योग्या विवक्षा अस्ति । अतः तत्सर्वं मद्विव क्षितं हेतुसाध्यरूपं सर्वमर्थजातम् । श्रेयसि स्थितैः अस्मच्छ्रेयोनिरतैः । भवद्भिः युष्माभिः । श्रोतुमिच्छामि, भवद्भिः श्रुत्वा परीक्षणं कार्यमिति ममे च्छास्तीत्यर्थः ॥ २॥ एवं सचिवाननुगुणीकृत्य स्वस्वभावकथनव्याजेन स्वविवक्षितं सहेतुकं दर्शयति- मित्रभावेनेति । मतान्तरेषु सदोषत्वान्न परिग्राह्य त्त्विति । एतावत्तु पुरस्कृत्य पूर्वोक्तधर्मजातं पुरस्कृत्य । स्ववचनं निगमयति यथाशक्तीति । आर्जवं निर्दोषत्वम् । मद्वाक्यं श्रुत्वा यत्कर्तव्यं त्वया तस्य सर्वस्य त्वमेव प्रमाणं परिच्छेत्ता ॥ ६४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां सप्तदशः सर्गः ॥ १७ ॥ अथ श्रीरामः सुग्रीववाक्यजनिते मनःकालुष्ये' हनुमद्वाक्यैः किञ्चित्प्रशमिते सति प्रसन्नचित्तः स्वमतं वकुमुपक्रमते अथेति । वायुसुतस्य वचनमिति शेषः । श्रुतवान् सामान्यविशेषशास्त्रज्ञः । आत्मनि स्थितं स्वमतम् ॥ १ ॥ अथ सर्वमतप्रतिक्षेपरूपेण स्ववाक्येनेतरे व्याकुलितमनसो भवेयुरिति शङ्कया रामः सचिवानुपलालयति ममापीति । ममापि विभीषणं प्रति काचिद्युष्मत्पक्षैस्सह परिगणनायोग्या विवक्षाऽस्ति तत्सर्वं मद्विवक्षित हेतु साध्यादिरूपमर्थजातं श्रेयसि स्थितैरस्मच्छ्रेयोनिरतैः भवद्भिः श्रोतुमिच्छामि मन्मतमपि श्रुत्वा भवद्भिः परीक्षणं कार्यमिति ममेच्छाऽस्तीत्यर्थः ॥ २ ॥ एवं सचिवानुपलाल्य स्वकीयस्वभाव सायं हनुमदुक्तप्रकारेण निर्दोष एव यद्यपि । यदि तस्प दोषः त्यागहेतुस्स्यात्ता तस्यैव दोषः रूपः स्यात् नास्माकं कश्वन। यद्यपि तस्य दोषः स्यात्तथापि न त्यजेयमिति वा ॥ ३ ॥
For Private And Personal Use Only