________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
युक्तिरूपा बुद्धिः ॥५६॥ कचिद्वणवत्यपि मित्रे दोषदृष्टिहेतुत्वेनानैकान्तोऽयं गुणदोषनिर्णयोपाय इत्याह-पृच्छयमान इति। बुद्धिमानपि पुमान् अपरि चितैः पृच्छयमानः सन् अविश्वासादेवैते पृच्छन्ति कस्मिन् वचस्युक्ते को वाऽनर्थः समापद्यत इति प्रतिवचनरूपं वच उद्दिश्य सहसा विविधा शङ्का प्रामुयात् । तथा सति सुखागतं स्वस्मिन्दोषराहित्येन विश्वासोपगतमपि मित्रं मिथ्या पृष्टं सत् तेन प्रश्नेन हेतुना प्रदुष्येत दुष्टं भवेदित्यर्थः। ॥५७॥ क्वचिनिष्प्रयोजनश्चायमुपाय इत्याह--अशक्य इति । भृशम् अत्यर्थम् । स्वस्मिन्नैपुण्यं पश्यतापि मिथ्या प्रष्ट्रा अन्तःस्वभावः अन्तार्हत
पृच्छचमानो विशङ्केत सहसा बुद्धिमान वचः। तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखागतम् ॥५७ ॥ अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै । अन्तःस्वभावैर्गीतैस्तै पुण्यं पश्यता भृशम् ॥ ५८॥
न त्वस्य अवतो जातु लक्ष्यते दुष्टभावता । प्रसन्न वदनं चापि तस्मान्मे नास्ति संशयः ॥ ५९॥ स्वाभिप्रायैः । परस्य गीतेः भापितैः । पराभिप्रायः सहसा ज्ञातुमशक्य इत्यर्थः । छद्मना प्रष्टुढमभिप्रायं ज्ञात्वा । अहृदयवाचामहृदया एवं प्रतिवाचो भवन्तीति न्यायेन परेणापि स्वाभिप्रायानाविष्करणादिति भावः ॥ ५८॥ एवं पूर्वोक्तेषु पक्षेषु दोषानुद्भाव्य सम्प्रत्यात्मना परीक्ष्यकक्षीकृतं पक्ष अकिञ्चित्करम्, मित्रस्य शङ्काजनकत्वात् । अमित्रस्य शठत्वेन तदभिप्रायादर्शनाच्च । अनो मैन्दमतं दुष्टमित्यन्द्य निराकरोति-अज्ञातरूपरित्यादिश्लोकत्रयेण । अज्ञातरूपैः अपरिचितस्वरूपस्वभावैः स विभीषणः पृच्छयतामिति मैन्देन यदुक्तम् अत्र अस्मिन्मते समीक्षिता सम्पक परीक्षिता प्रेक्षाधुद्धियुक्तिर्वा
काचिदस्ति ॥ १६ ॥ का पुनस्तबुद्धिरित्यत आह- पृच्छयमान इति । बुद्धिमानपि पुमानपरिचितैः पृच्छचमानस्सन् विशङ्केत अविश्वासादेते मां पृच्छन्ति पाकस्मिन् वचस्युक्ते को वाऽनर्थस्समापतेदिति प्रतिवचनरूपं वचनमुद्दिश्य सहसा विविधा शङ्कां प्राप्नुयात् तथा सति सुखागतं स्वस्मिन् दोषराहित्येन विश्वासोप गतम् अयत्नलब्धं मित्रं मिथ्यापृष्ट छद्मना पृष्टं सत् तेन प्रश्नेन हेतुना प्रदुष्येत दुष्ट भवेत् । उद्मना प्रश्ने कृते मित्रहानिर्भवेदित्यर्थः ॥ ५७ ॥ किश्चिनिष्प्रयोजनश्चाय मुपाय इत्याह-अशक्य इति । भृशमत्यर्थ स्वस्मिन्नैपुण्यं पश्यता निपुणत्वं जानता, नेपुण्यं मन्यतेत्यर्थः । अन्तस्स्वभावैः आपाततः प्रसन्नार्थत्वेऽपि गूढाभिप्रायः तैतिः प्रश्नरूपभाषितैः परस्य भावः अभिप्रायः सहसा वेनुं न शक्यः । छद्मना प्रष्टुः गृहमभिमायं ज्ञात्वा अहृदयवाचामहृदया एव प्रतिवाचो भवन्तीति न्यायेन परेणापि स्वाभिमायानाविष्करणादिति भावः ॥ ५८ ॥ एवं मतान्तरागि निराकृत्य इङ्गिताकारभावणचोष्ठितरूपैरुपपत्तिमिस्तस्य निर्दुष्टता ज्ञातुं शक्या, अतोऽयं विभीषणो ग्राह्य एवेत्याह-न त्वस्येत्यादिना । संशयः दुष्टभावत्वसंशयः ॥ ५९॥
For Private And Personal Use Only