________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू. स्वचक्षुर्विषये सम्यक्परिदृश्यमाने व्यवधानरहिते नभस्स्थलावस्थायिनि चास्मिन् पररन्ध्रादितत्त्वदर्शनलक्षणचारप्रयोजनाभावादयमुपायो न युज्यत टी.यु.का. ५३॥ इति भावः । चारणं नोपपद्यत इति पाठे तु-चारयितव्यस्यान्तःपुरसमाजतीर्थादिरूपस्य विषयस्याभावाचारसञ्चारणं न घटत इत्यर्थः ॥५३ ।। अदेशस०१५
काले संप्राप्त इत्यस्य जाम्बवन्मतस्यासारत्वात्तन्निराकरणेन सर्व निराकृतप्रायमिति तत्स्वरूपासिद्ध्या दूषयति-अदेशति साईशोक एकान्वयः। अयं विभीषणः । अदेशकाले संप्राप्त इति यत् । तत्र तद्विषये । यथातथा याथातथ्येन । स एष देशः कालश्च भवतीति मे यथामति इयं विवक्षाऽस्ति तां ।
अदेशकाले सम्प्राप्त इत्ययं यदिभीषणः । विवक्षा तत्र मेऽस्तीयं तां निबोध यथामति । स एष देशः कालश्च भवतीति यथातथा॥५४॥ पुरुषात् पुरुषं प्राप्य तथा दोषगुणावपि।दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि। युक्तमागमनं तस्य सदृशं तस्य बुद्धितः॥५५॥ अज्ञातरूपैः पुरुषैः स राजन् पृच्छयतामिति । यदुक्तमत्र मे
प्रेक्षा काचिदस्ति समीक्षिता ॥ ५६ ॥ निबोधेत्यन्वयः ॥ ५४॥ विवक्षितमेव सोपपत्तिकं विशदयति-पुरुषादित्यादिसायश्लोकेन । पुरुषात् अधमपुरुषाद्रावणात् । पुरुषम् उत्तमपुरुषं भवन्तम् । प्राप्य मनसा विमृश्य । तथा दोषगुणावपि युवयोर्विमृश्य । तथा रावणे दौरात्म्यं राक्षसकुलविनाशहेतुभूतसीतापहरणतत्प्रत्यर्पणा नपेक्षित्वादिकम् । त्वयि विक्रम खरदूषणप्रमुखराक्षसवधादिकम्, वालिवधपूर्वकसुग्रीवराज्यप्रदानम्, अतिदुस्तरसमुद्रतरणोद्योगं च दृष्ट्वा । तस्य बुद्धितः बुद्धेः सदृशं तस्य आगमनं युक्तमिति सम्बन्धः । यदा प्रतिकूले दोषदर्शनमनुकूले गुणज्ञानं च स एव देशः कालश्च भवति । इदं तथ्य Mमिति भावः ॥५५ ॥ मन्दमतं प्रतिक्षिपति श्लोकत्रयेण-अज्ञातेति । अज्ञातरूपैः अपरिचितस्वरूपस्वभावैः । समीक्षिता सम्यक्परीक्षिता। प्रेक्षा चारणं चारप्रेषणम् ॥५३॥ जाम्बवतोक्तं शङ्कनीयत्वविषयम् अदेशकालागतत्वहेतुं स्वरूपासिद्ध्या दूषयति--अदेशकाल इत्यादिना । अयं विभीषणः अदेशकाले सम्माप्त इति यत् तत्र तद्विषये यथातथा याथायन स एष देशः कालश्च भवतीति मे यथामति इयं विवक्षा अस्ति तो निबोधेति सम्बन्धः ॥ ५५ ॥ विवक्षित ॥५३॥ मेव सोपपत्तिकं विशदयति-पुरुषादिति । पुरुषादधमपुरुषाद्रावणात् । पुरुषम् उत्तमपुरुष भवन्तं प्राप्य मनसा विमृश्य तथा उभयोः दोषगुणावपि विमृश्य दौरात्म्यं सीताप्रत्यर्पणाभावादिलक्षणं रावणे हा विक्रम च तथा त्वयि कबन्धखरदूषणप्रमुखराक्षसवधादिकम् अतिवलपराक्रमवालिवधपूर्वकसुमीवराज्य स्थापनम् अतिदुस्तरसागरतरणोद्योगं च त्वयि दृष्ट्वा ज्ञात्वा तस्य बुद्धितः बुद्धिसदृशं तस्यागमनं युक्तमिति योजना ॥ ५५॥ चारप्रेषणं मित्रामित्रविषये
For Private And Personal Use Only