SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तर्ककौशलात् । सङ्घर्षांत् सचिवेषु स्पर्धावशात् । आधिक्यात् अहं मतिमान् वाग्मी चेत्याधिक्याभिमानात् । कामतः स्वैर भाषणेच्छातः, विभीषण पक्षपाताद्वा । ता किमर्थ प्रवृत्तिस्तत्राह - गौरवादिति । मयि त्वत्कृतात्सम्मानात् ॥ ५० ॥ पूर्वोक्तेषु चतुर्षु मतेषु प्रथममङ्गदमतं दूषयति- अर्थानर्थेति । अर्थानर्थयोर्निमित्तं निर्णयोपायः । सचिवैः अङ्गदेन, तादात्विक संरम्भपरिहाराय नामानुक्तिर्बहुवचनं च यदुक्तं तत्र दोषं प्रपश्यामि । कुतः १ किया एवं अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव । तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते ॥ ५१ ॥ ऋते नियोगात् सामर्थ्यमवबोद्धुं न शक्यते । सहसा विनियोगो हि दोषवान् प्रति भाति मा ॥ ५२ ॥ चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव । अर्थस्यासम्भवात्तत्र कारणं नोपपद्यते ॥ ५३ ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रकारेण क्रिया नोपपद्यते हि ॥ ५१ ॥ अनुपपत्तिमेव दर्शयति-ऋत इति । नियोगाद्राजकार्येषु नियोगात् । ऋते विना । " अन्यारादितरतें - " इत्या दिना पञ्चमी । सामर्थ्य साधुत्वम् । सहसा विनियोगः गुणदोषपरीक्षामन्तरेण कुत्रचिन्महति राजकार्ये विनियोजनम् । मा मां प्रति । दोषवान् भाति तथा च सत्यां गुणदोषपरीक्षायां नियोगः, नियोगे सति गुणदोषपरीक्षणमित्यन्योन्याश्रयः । अतोऽनुपपन्नमङ्गदमतमिति भावः ॥ ५२ ॥ अथ शरभमतं प्रयोजनाभावेन खण्डयति-चारेति । अत्रेतिशब्दोऽध्याहर्तव्यः । चारप्रणिहितं चारप्रणिधानं युक्तमिति तव सचिवैर्यदुक्तम्, शरभेण यदुक्त मित्यर्थः । तत्र तस्मिन्मते । अर्थस्य चारप्रयोजनस्य दूरतिरोहितदर्शनादेरसम्भवात् चारप्रणिधानलक्षणं कारणम् उपायः, न युज्यत इत्यर्थः । अत्यासन्ने इत्याधिक्याभिमानात् । कामतः स्वरभाषणेच्छातः । तर्हि किमर्थं प्रवृत्तिः । तत्राह गौरवाद कार्यगौरवाद्धेतोः । यद्वा त्वत्कृतात्सम्मानात् ॥ ५० ॥ तत्र प्रथममङ्गदतं दूषयति- अर्थेति । अर्थानर्थनिमित्तं विभीषणगुणदोषनिश्चयनिमित्तम् । सचिवैः अङ्गदेन यदुक्तं तत्र तस्मिन्नर्थे दोषं प्रपश्यामि । कुतः क्रिया पूर्वोक्तप्रकारेण परीक्षणक्रिया तदिदानीं नोपपद्यते हि ॥ ५१ ॥ अनुपपत्तिमेवाह ऋते नियोगादिति । नियोगात्कस्मिंश्चित्कर्मणि नियोजनात् ऋते । सामर्थ्य सद्गुणवत्त्वम् अवबोद्धुं न शक्यते । अस्तु विनियोगः का हानिरित्यत आह सहसा विनियोगः गुणदोषाव परीक्ष्य महत्सु कार्येषु विनियोगः मा मां प्रति ! दोष वान् प्रतिभाति । ततश्च गुणदोषपरीक्षायां सत्यां नियोगः । नियोगे च सति गुणदोष परीक्षणमित्यन्योन्याश्रयदोषग्रस्तमिदं मतमिति भावः ॥ ५२ ॥ शरभमतं प्रयोजनाभावेन दूषयति-चारेति । चारमणिहितं चारप्रेषणं युक्तमिति तब सचिवैः शरभेण यदुक्तम् तत्र तस्मिन्मते तु अर्थस्य चारकर्तव्यप्रयोजनस्यासम्भवात् कारणं चारमणिधानलक्षणोपायो नोपपद्यते चारशेषणस्य दूरतिरोहितविषयत्वात्परिदृश्यमाने विभीषणे तन्न युक्तमिति भावः । चारणं नोपपद्यते इति पाठे तु For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy