________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बहून् गुणान् ज्ञात्वा सङ्ग्रहः क्रियतां वा । स्वल्पदोषवत्त्वेऽपि बहुगुणो ग्राह्यः । स्वल्पगुणवत्त्वेऽपि बहुदोषस्त्याज्य इति भावः॥१०॥ विनियोग विना गुणदोपपरिज्ञानं न सम्भवति, सहसा विनियोगे चमन्त्रहानिः स्यादिति पूर्वास्वरसाच्छरभ आह-शरभास्त्विति । तुशब्दः पूर्वस्माद्वैलक्षण्यपरः । सायं साध्यार्थकम् । अनेनाङ्गन्दपक्षस्यासाध्यार्थत्वं द्योतितम् । अस्मिन् विभीषणविषये। प्रतिविधीयतां प्रेष्यताम् ॥४१॥ प्रणिधायेति । प्रणिधाय चारं
शरभस्त्वथ निश्चित्य साद्धयं वचनमब्रवीत् । क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम् ॥४१॥ प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना। परीक्ष्य च ततः कार्यों यथान्याय्यं परिग्रहः ॥४२॥ जाम्बवास्त्वथ सम्प्रेक्ष्य शास्त्रबुद्धया विचक्षणः । वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम् ॥४३॥ बद्धवैराच्च पापाच्च राक्षसेन्द्राद विभीषणः। अदेशकाले सम्प्राप्तः सर्वथा शङ्कयतामयम् ॥४४॥
ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः । वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम् ॥४५॥ प्रेषयित्वा । सूक्ष्मबुद्धिना चारेण यथावन्नीतिशास्त्रोक्तरीत्या परीक्ष्य ततो यथान्याय्यं न्यायादनपेतं न्याय्यं निर्णीतार्थमनतिक्रम्य । परिग्रहः विभीषण परिग्रहः कार्यः॥४२॥ नियोगेन चारेण वा नायं परीक्ष्यः अविसम्भहेतूनां बहूनां सम्भवादिति जाम्बवान् पक्षान्तरमुपक्षिपति-जाम्बवानिति । गुणवत् युक्तिमत् । दोषवर्जितम् अनपायमिति पूर्वोक्तमतद्वयव्यावृत्तिः ॥४३॥ बद्धेति । बद्धवैरात् दृढवैरात् । पापात् पापकर्मणः । अदेशे दूरतया साम्प्रतिकभयाभावेन आगमनप्रयोजनरहिते । अकाले स्वामिपरित्यागानईकाले ॥४४॥ सर्वथा शङ्कयत्वेऽपि सुकरोपायेन गुणदोषपरीक्षाया अकरणे सुखोपनतमित्रहानिः स्यादिति मैन्दो मतान्तरमाइ-तत इति । हेतुमत्तरम् अतिशयेन हेतुयुक्तम् ॥१५॥ तयोर्भूयस्त्वाल्पत्वे परीक्ष्य परित्यागसही कार्यावित्याह-यदि दोष इति ॥ ४०॥ अथ शरभः, तिष्ठतु नियोगः इदानीमेव चारमुखेन गुणदोषी परीक्ष्य सङ्ग्रहा परित्यागो वा कर्तव्य इत्याह-शरभस्त्विति श्लोकद्वयमेकं वाक्यम् । अत्र तुशब्दः अङ्गदमताद्वैषम्यं द्योतयाति । साध्यं कर्तव्यार्थपरं वचनम् ॥ ४१ ॥ प्रणिधायेति । प्रणिधाय चारं प्रेषयित्वा सक्ष्मबुद्धिना चारेण यथावत्परीक्ष्य च ततः यथान्याय्यं परिग्रहः कार्यो हीति योजना ॥ ४२ ॥ अथ जाम्बवान किमस्मिन् परीक्षया अविश्वासे बहुसम्भवात्परित्याज्य एवेत्याह-जाम्बवानित्यादिश्लोकद्वयेन । पापात पापकर्मणः। अदेशकाले अदेशे शत्रुसमीपदेशे अकाले रात्रौ । यद्वा अकाले स्वामिपरित्यागानईकाले ॥३॥४॥ अथ मैन्दः शङ्कनीयत्वमभ्युपगम्यव गुणदोषपरीक्षायामुपायान्तरमाह-ततो मैन्द इत्यादिलोकत्रयेण । तुमत्तरमा
For Private And Personal Use Only