________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
तस्मादिति । तस्मात् भवत उक्तगुणत्वात् । तावत् क्रमेण । हेतुतः युक्तिभिः । ब्रुवन्तु ॥ ३५॥ सुग्रीवानन्तरमनदस्य युवराजतया प्रधानत्वात् टी-पु,का प्रथममङ्गदो जगादेत्याह-इत्युक्त इति । विभीषणपरीक्षार्थम्, तदुपायप्रतिपादकमिति शेषः ॥ ३६ ॥ शबोरिति । असौ शरणागतोऽपि शत्रोः स. सकाशात् प्राप्तत्वादनुकूलो नेति शङ्कय एव । अतः सहसा परीक्षामन्तरेण विश्वासयोग्यो न कर्तव्यः किन्तु परीक्ष्य प्रवेष्टव्य इति सुग्रीव । वचनाद्विशेषः ॥३७॥ विश्वासकरणे अनिष्टमाह-छादयित्वेति । शठबुद्धयः कुटिलबुद्धयः । आत्मभावं स्वाभिप्रायम् । छादयित्वा स्वाभिप्राय
तस्मादेकैकशस्तावत् अवन्तु सचिवास्तव । हेतुतो मतिसम्पन्नाः समर्थाश्च पुनः पुनः ॥३५॥ इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः। विभीषणपरीक्षार्थमुवाच वचनं हरिः॥ ३६ ॥ शत्रोः सकाशात् सम्प्राप्तः सर्वथा शङ्कय एव हि । विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः॥३७॥ छादयित्वाऽऽत्मभावं हि चरन्ति शठबुद्धयः। प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् ॥ ३८॥ अर्थानों विनिश्चित्य व्यवसायं भजेत ह । गुणतः सङ्ग्रहं कुर्याद्दोषतस्तु विवर्जयेत् ॥३९॥ यदि दोषो महास्तस्मिंस्त्यज्यतामविशङ्कितम् । गुणान् वापि बहून ज्ञात्वा सङ्ग्रहः क्रियतां नृप॥४०॥ सूचकेङ्गितादिकमपि स्थगयित्वेत्यर्थः । चरन्ति यावबन्धलाभं स्वैरसञ्चारं कुर्वन्ति । रन्ध्रेषु अनवधानेषु सत्सु । प्रहरन्ति हिंसन्ति ॥ ३८॥ त्यागो पादानोपयुक्तं परीक्षाप्रकारमाह-अर्थानाविति । अर्थानौँ गुणदोषो विनिश्चित्य कस्मिंश्चित्कर्मणि नियोगेन निश्चित्य व्यवसायं त्यागसङ्ग्रहोचिताध्यव सायं भजेत । तत्र गुणतःगुणनिश्चयेन सङ्ग्रहम् अङ्गीकारं कुर्यात् । दोषतः दोषनिश्चयेन तु विसर्जयेत् ॥ ३९ ॥ ननु सर्वात्मना गुणी दोषी वा दुर्लभः अतः कथं सङ्ग्रहत्यागव्यवस्थितिरित्यत्राह-यदीति । तस्मिन् विभीषणे महान् दोषो यदि स्यात् तदा असो अविशङ्कितम् अविशई त्यज्यताम् । निसृष्टात्मा सुहृत्रिवेशितान्तःकरणः । सुदधीनमनस्क इत्यर्थः ॥ ३४ ॥ हेतुतः हेतुर्भितं स्वं स्वं मतं अवन्तु ॥ ३५॥ इत्युक्त इत्यादि श्लोकपञ्चकमेक वाक्यम् । इत्युक्त इति, सचिवेरिति शेषः । विभीषणपरीक्षा अर्थः प्रयोजनं यस्य तत् ॥ ३६॥३७॥ शीघ्रं विश्वासानहत्वे हेतुमाह-छादयित्वेति । सोऽनर्थस्सुमहान ॥५१॥ भवेदिति ॥३८ ॥ अतः कस्मिंश्चित्कर्मणि एनं नियुज्य तत्रास्य गुणदोषी परीक्ष्य पश्चात्साहः परित्यागो वा क्रियतामित्याह-अर्थानाविति । अर्थानौँ गुणदोषी।। व्यवसायं साहविसर्जनाध्यवसायं भजेत । ततः गुणतः गुणे सति साहं कुर्यात् । दोषतः दोषे सति विसर्जयेदिति सम्बन्धः ॥ ३९ ॥ उभयोरपि सद्भावे तु।
For Private And Personal Use Only