________________
Shri Mahavir Jain Aradhana Kendra
www.birth.org
Acharya Shri Kalassagarsen Gyanmandir
अपि तु बुद्धिमता समर्थेन शाश्वती भूतिमिच्छता श्रेयस्कामेन सुहृदा सुहृदन्तरेणापि । अर्थकृच्छ्रेषु कार्यसङ्कटेषु । उपदेष्टुं युक्तमेव । अतो यूयमपि। वदतेत्यर्थः ॥ ३१॥ इत्येवमिति । स्पष्टम् ॥ ३२ ॥ सोपचारप्रशंसावाक्यमेवाह-अज्ञातमिति । अत्र सर्वज्ञ इत्युक्ते प्रायिकत्वशङ्का स्यादिति तन्नि वृत्त्यर्थ व्यतिरेकोक्तिः । त्रिषु लोकेषु कृतकमकृतकं कृतकाकृतकमित्युक्तेषु । आत्मानं सुहृत्तया सूचयनस्मान् पृच्छसीत्यन्वयः । अयं वानराणां सुहृदितीमा कीर्ति लोके ख्यापयितुं तवायं प्रश्न इत्यर्थः। पूजयन्निति पाठे तु अस्मान् प्रत्येकं मानयन्त्रस्मान् पृच्छसीत्यर्थः। प्रत्येकं माननाभिप्रायेणैव
इत्येवं परिष्टष्टास्ते स्वं स्व मतमतन्द्रिताः । सोपचारं तदाराममूचुर्हितचिकीर्षवः ॥ ३२ ॥ अज्ञातं नास्ति ते किञ्चित् त्रिषु लोकेषु राघव । आत्मानं सूचयन् जानन पृच्छस्यस्मान सुहृत्तया ॥ ३३ ॥
त्वं हि सत्यवतःशरो धार्मिको दृढविक्रमः । परीक्ष्यकारी स्मृतिमान् निसृष्टात्मा सुहृत्सु च ॥३४॥ आत्मानमित्येकवचनप्रयोगः । यदा आत्मानम् आत्मस्वभावम् । जानन राजनीतिमिति यावत् । पूजयन् पालयन् । यद्वा सुहृत्तया शोभनहृदय । तया हेतुना आत्मानं स्वं पूजयन् । कार्यविचारेषु अस्मदपेक्षया स्वयमेव शोभनहृदय इति स्वप्रभावमभिव्यञ्जयितुमिति भावः । अस्मन्मतानि पूर्वपक्षीकृत्य स्वमतमेव सिद्धान्तयितुमिति भावः ॥ ३३ ॥ स्वपूजनार्थमस्मान् पृच्छसीत्यत्र हेतुमाह-त्वमिति । सत्यवतः शरणागतरक्षणव्रतस्या सापराधरावणादिष्वपि विफलीकर्तुमशक्यत्वात् । परीक्ष्यकारी सर्वज्ञः सन्नपि सम्यग्तुभिर्विमृश्याचरणशीलः । सुहृत्सु निसृष्टात्मा सुहृत्परतन्त्री कृतात्मस्वरूपः । पूर्वश्लोके सुहृत्त्वमात्रमुक्तम् । अब तु सुहृत्परतन्त्रत्वमिति भेदः ॥ ३४॥ शेषः ॥ ३० ॥३१॥ सोपचारं समर्शसम् ॥ ३२ ॥ तदेवाह-अज्ञातमिति । त्रिषु लोकेष्विति सर्वलोकोपलक्षणम् । आत्मानं सुहत्तया सूचयन् अस्मान् पृच्छ| सीत्यन्वयः । अयं वानराणां वदवितीमा कीर्ति लोके ख्यापपितुं तवार्य प्रश्न इत्यर्थः। पूजयन्निति पाठे तु-आत्मानम् अस्मान प्रत्येक पूजयन् मानयन् अस्मान पूच्छसि । यद्वा आत्मानं पूजयन जानन्निति स्वभावं परिपालयन् ॥ ३३ ॥ त्वं हि इति पदद्वयम् आखलवानरगुणवेलक्षण्यं कथयति । शरणागतवतस्य साप। राधरावणादिष्वपि विफलीकर्तुमशक्यत्वात्सत्यवतः शरणागतरक्षणधर्मनिष्ठान्वितः । परीक्ष्यकारी सर्वज्ञस्सनपि सम्पग्धेतुभिर्विमृश्याचरणशीलः। महत्व
१८६
4
For Private And Personal Use Only