________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. ॥५०॥
अत एव तेषां सैन्यं प्रविष्टः सन् कदाचित् अन्तरं छिद्रं लब्ध्वाइन्यादित्यर्थः । प्रविष्टोऽप्येकाकी कथं बहून् हनिष्यतीत्याशय छिदसहितस्य युज्यत माइति दृष्टान्तमुखेन प्रकटयति उलूक इति ॥२६॥ ताई किं कर्तव्यम् ? तबाह-वध्यतामिति । वध्यतां केवलनिरसने कृते मारीचवदनर्यकारी स्यादिति
भावः। तीवेण दण्डेन । वालिवदेकेन बाणेन न हन्तव्यः । किंतु शिरसि वर्ति कृत्वा दीपारोपणं कार्यम् । सचिवैः सह प्रथमं तेषां शिरांसि छित्त्वा । विभीषणहस्ते दत्त्वा ततोऽयं वयताम् । तत्र हेतुमाह रावणस्येत्यादि ॥२७॥ एवं सुग्रीवो विभीषणविषयवक्तव्यमुक्त्वा अतः परमनेन यत्किचिदुक्तं ।
वध्यतामेष दण्डेन तीवेण सचिवैः सह । रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥ २७॥ एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः। वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥२८॥ सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महायशाः । समीपस्थानुवाचेदं हनुमत्प्रमुखान् हरीन् ॥ २९ ॥ यदुक्तं कपिराजेन रावणावरजं प्रति । वाक्यं हेतुमदर्थ्यं च भवद्भिरपि तच्छ्रुतम् ॥ ३० ॥
सुहृदा ह्यर्थकृच्छ्रेषु युक्तं बुद्धिमता सता । समर्थेनापि सन्देष्टं शाश्वती भूतिमिच्छता ॥३१॥ चेदुत्तरं वक्ष्याम इति तूष्णीं स्थित इत्याह--एवमुक्त्वेति ॥२८॥ अथ शरणागतवत्सलो रामः सुग्रीवस्य संरम्भप्रतिक्षेपाय यत्किचियाजमपेक्षमाणो विभीषणस्य विश्वासातिरेकेण किंचिदिलम्बेऽपि भावं निवेदयतेति वदतस्तस्य तदन्तर्भावापेक्षा च सम्यगालोच्य प्रतिक्षेपकमुखेनैव तदानयनं कतु। कामो हनुमदादीनुवाचेत्याह-सुग्रीवस्यति । स्पटम् ॥२९॥ रामः सुग्रीववचनोपलालनपूर्वकमन्यानपि सचिवान् स्वं स्वं मतं पृच्छति-यदुक्तमित्यादि लोकद्वयेन । हेतुमत् युक्तियुक्तम् । अर्थ्यम् अर्थःप्रयोजनं तस्मादनपेतम् ॥३०॥ सुहृदेति । न ोकेन सुहृदोपदिष्टे सत्यन्येस्तूष्णी स्थातव्यम् । शपूणां पासमागतः। अतर्कितः प्रवेशवेलायाम् अस्माजिघांसपाध्यमागत इति तेरविचारितः। अत एव तेषां सैन्यं प्रविष्टः स्थितस्सन् कदाचिदन्तरं लब्ध्वा निहन्या । दिति सम्बन्धः । प्रविष्टोप्ययमेकाकी कथं बहून हनिप्यतीत्याशङ्कच निद्रे सति तत्सम्भवतीति दृष्टान्तमाह उलक इति ॥ १५-२९ ॥ श्रीरामस्तुप्रीववचनो लापलालनपूर्वकमन्यानपि सचिवान स्वं स्वं मतं पृच्छति-यदुक्तमित्यादिलोकद्वयन । हेतुमत् युक्तियुक्तम् । अयम् अर्थः प्रयोजनम् तस्मादनपेतं वाक्यं भवद्भि। रपि विश्रुतम् । अर्थकृच्नेषु कार्यसङ्कटेषु बुद्धिमता समर्थेन श्रेयस्कामेन सुहृदा सुहृदन्तरेणापि सन्देष्टुमुपदेई युक्तमेव, अतो पूयमपि स्वं स्वं मतं ब्रूतेति ॥
जनं तस्मादनात विचारितति सानायक शुक्मेव
For Private And Personal Use Only