________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
शत्रुसकाशादागतस्यास्य परिग्रहे शत्रोर्बलक्षयः अस्माकं बलवृद्धिश्व स्यादित्याशय द्विषद्वलव्यतिरिक्तमेव बलं ग्राह्यमित्याह-मित्रेति । मित्रब ं मित्रसम्बन्धिवलम् । अटवीबलम् आटविकजनरूपं बलम् । मौलं परम्परागतं सैन्यम् । भृत्यवलं तादात्विक भृतिप्रदानोपजीविबलम् ॥ २२ ॥ न केवलं द्विषद्वलत्वमात्रम् अन्येऽप्यपरिग्राह्यताहेतवः सन्तीत्याहु-प्रकृत्येति । प्रकृत्या जात्येत्यर्यः ॥ २३ ॥ नन्वयं शरणामतः कथं परित्याज्य इत्या शङ्खच शरणागतिलक्षणमायोपायेन विश्वासमुत्पाद्य त्वयि प्रहतु प्रवृत्तत्वान्नास्यापरिग्राह्यत्वमात्रम्, किंतु सहायैः सह वध्यत्वमित्याह - रावणेनेत्यादि
मित्राटवीबलं चैव मौलं भृत्यबलं तथा । सर्वमेतद्वलं ग्राह्यं वर्जयित्वा द्विषद्वलम् ॥ २२ ॥
प्रकृत्या राक्षसेन्द्रस्य भ्राताऽमित्रस्य ते प्रभो । आगतश्च रिपोः पक्षात् कथमस्मिन् हि विश्वसेत् ॥ २३ ॥ रावणेन प्रणिहितं तमवेहि विभीषणम् । तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ २४ ॥ राक्षसो जिह्मया बुद्धया सन्दिष्टोऽयमुपागतः । प्रहर्तुं मायया च्छन्नो विश्वस्ते त्वयि राघव ॥ २५ ॥ प्रविष्टः शत्रुसैन्यं हि प्राज्ञः शत्रुरतर्कितः । निहन्यादन्तरं लब्ध्वा उलूक इव वायसान् ॥ २६ ॥ लोकद्वयमेकं वाक्यम् । प्रणिहितं प्रणिधिकर्मणा नियुक्तम् । अस्य शरणागतिर्विप्रलम्भकृतेति भावः । क्षमवतां युक्तव्यापारवताम् । क्षमं हितम् । “क्षमं शक्ते हिते त्रिषु" इत्यमरः ||२४|| प्रणिधिरप्येष नः किं करिष्यतीत्यत्राह - राक्षस इति । सन्दिष्टः, रावणेनेति शेषः। प्रहर्तु सन्दिष्ट इति सम्बन्धः॥२५॥ ॥ यदा शाठयं दृश्यते तदाऽसौ इन्यताम् तत्राह - प्रविष्ट इति । प्राज्ञ इति हेतुगर्भविशेषणम् । प्राज्ञत्वादतर्कितः अस्मविघांसयाऽयमागत इति तैरविचारितः। शत्रु कुलादागतस्यास्य परिग्रहे शत्रोर्बलस्य क्षयः, अस्माकं बलवृद्धिश्च स्यादित्याशङ्कय तस्यापरिमाह्यत्वमाह -मित्रोते । अटवीबलम् आरण्यजन त्रलम् । मौलं मूल बलम् । भृत्यवलं भृत्युपजीविबलम् ॥२२॥ न केवलमस्मिन् द्विषद्वलत्वमात्रम्, किन्त्वस्यापरिब्राह्मताहत वस्सन्तीत्याह-मकृत्येति ॥ २३॥ नन्वयं शरणागतः कथं परि स्याम्य इत्याशङ्कष शरणागतिलक्षणमायोपायेन विश्वासमुत्पाद्य त्वयि महर्तुं प्रवृत्तत्वान्नास्य परिब्राह्मत्वमात्रम्, किन्तु सहायेस्सह वध्यत्वं चेत्याह-रावणेनेत्यादिना । तं शरणागत शब्दोच्चारिणं रावणानुजम् । क्षमवतां युक्तव्यापारवताम् ॥१४॥ राक्षस इत्यादि लोकद्वयमेकं वाक्यम् । सन्दिष्टः, रावणेनेति शेषः । प्राप्तः स्वनिवासाद स० [तस्य बलिष्ठस्य कथं निग्रह हत्यत लाइ क्षमवतां वरेति । क्षमाः शक्ता एषां सन्तीति क्षमवन्तः तेषु वर ! एतेन त्वत्सेनानायकैरस्माभिरपि तनिग्रहः सुसाध्यः किमु स्वयेति सूचयति । “क्षमं युक्ते क्षमान्विते । वाच्यवच्छक्तहितयोः क्षमा भूमितितिक्षयोः ॥” इति विश्वः । एतेन तितिक्षार्थं क्षमशन्दमङ्गीकृत्य स्वत्वस्यार्थत्ववर्णनं परास्तम् । सति गत्यन्तरे तस्यायुक्तत्वात्क्षमाकथनस्य कथा तत्वाच्च ॥ २४ ॥
For Private And Personal Use Only