________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भ.
टी.यु.कt:
न्यायेन तस्य सर्वशक्तित्वमपि विस्मृत्य शरणागतवत्सलो रामः शरणागतिशब्दश्रवणमात्रेण गूढहृदयमेनं परिग्रहीयात् ॥ १६॥ ततः करहृदयोऽयं रामे किमिव पापमाचरेदित्यस्थानभयशाव्याकुलितः शीघ्रं रामसमीपं गत्वा स्वसमानहृदयं लक्ष्मणमपि सहायीकृत्य विभीषणो निवाझ इति विज्ञा पयामासेत्याइ-एतदिति । तुशब्देन पूर्वोक्तविशेष उच्यते । लघुविक्रमः शीघगमनः। संरब्धं प्रेमभरात त्वरितोदिताक्षरम् ॥१७॥ मन्त्र इति । मन्त्रः
रावणस्यानुजो भ्राता विभीषण इति श्रुतः। चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः॥ १७॥ मन्त्र व्यूहे नये चारे युक्तो भवितुमर्हसि । वानराणां च भद्रन्ते परेषां च परन्तप ॥१८॥ अन्तर्धानगता ह्येते राक्षसाः कामरूपिणः। शूराश्च निकृतिज्ञाश्च तेषु जातुन विश्वसेत् ॥१९॥ प्रणिधी राक्षसेन्द्रस्य रावणस्य भवेदयम् । अनुप्रविश्य सोऽस्मासु भेदं कुर्यान्त्र संशयः ॥२०॥
अथवा स्वयमेवैष छिद्रमासाद्य बुद्धिमान् । अनुप्रविश्य विश्वस्ते कदाचित् प्रहरेदपि ॥२३॥ कार्याकार्यविचारः। व्यूहः सेनास्कन्दनिवेशः। नयः विचार्य निश्चितानामुपायानां स्वस्वविषये प्रयोगः । चारः गूढपेषणम् । वानराणां परेषां राक्ष सानां च मन्त्रादिषु विषये युक्तः अवहितः । भवितुमर्हसि, वानराणां मन्त्रादीन प्रयोजय । शां मन्त्रादीस्तु सम्यक् जानीहि । एवं सति तब भद्रं
भविष्यतीत्यर्थः॥ १८॥ अस्त्वेवम्, ततः किमित्याशङ्कय प्रकृतं विज्ञापयति-अन्तर्धानेति । अन्तर्धानगताः अदृश्यचारिणः। निकृतिज्ञाः कपटोपाय Mवेदिनः ॥ १९॥ विश्वासे वा किमयं करिष्यतीत्याशय भेदं दण्डं वा करिष्यतीत्याह-प्रणिपिरिति । प्रणिधिः चारः । “यथाईवर्णः प्रणिधिरप
सर्पश्वरः स्पशः। चारश्च गुढपुरुषः" इत्यमरः। भेदं मित्रभेदम् ॥२०॥ अथवेति । अपिः सम्भावनायाम् ॥२१॥ न माह्य इति मुग्रीवः श्रीरामाय विज्ञापयामासेत्याह-पतत्वित्यादिना । लघुविक्रमः शीघ्रगमनः । संरब्धं त्वरितोदिताक्षरं यथा तथा ॥ १६ ॥ १७ ॥ मन्त्र इति एतेषु विषयसप्तमी । मन्त्र कार्याकार्यविचारे । पहे सेनानिवेशे । नये विचार्य विनिश्चितानामुपायाना तत्तद्विषयप्रयोगे । चारे गठपुरुषप्रेषणे । वानराणां परेषां राक्षसानां च मन्त्रादिषु विषये पुक्तोऽवहितो भवितुमईसि । वानराणां मन्त्रादीन् प्रयोजय, शत्रूणां मन्त्रादीन चारमुखेन सम्पग जानीहि । एवं सति ते| भद्रं भविष्यतीत्यर्थः ॥ १८॥ अन्तर्धानगता अदृश्यसञ्चारस्वभावाः । निकृतिज्ञाः गढविप्रियकरणाभिज्ञाः ॥ १९॥ प्रणिधिः चारः ॥२०॥२१॥
॥९॥
For Private And Personal Use Only