________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शरण्यस्य च स्वार्तरवश्रवणाय महास्वरप्रयोगः । रामविषये चैवंविधार्तरवोच्चारणं भाग्याधिकस्यैवेति विवक्षया महानित्युक्तिः। यथोक्तं लक्ष्मीतन्त्रे"आकिञ्चन्यैकशरणाः केचिद्भाग्याधिकाः पुनः। मामेव शरणं प्राप्य मामेवान्ते समभुते" इति ॥९॥ अत्र प्रथम स्वदोषान् पुरस्करोति-रावण इति रावणं लोकरावणमिति न्यायेन रावयतीति व्युत्पत्तिसंभवान्नामेव कूरमित्यर्थः । न केवलं नामेव क्रूरम्, व्यापारोऽपि नृशंस इत्याह दुर्वृत्त इति । जाति रपि तथाविधेत्याह राक्षस इति । न केवलं स्वयमेव क्रूरः क्रूरानेकपरिकरसमवेतश्चेत्याह-राक्षसेश्वरः इति । रावणस्यैवंविधत्वे तब किमायातमित्यवाह
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः। तस्याहमनुजो भ्राता विभीषण इति श्रुतः॥१०॥
तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् । रुद्धा च विवशा दीना राक्षसीभिः सुरक्षिता ॥ ११॥ तस्याहमिति । यद्यहमग्रजः स्यां तर्हि तदाज्ञाननुवर्तित्वेन धनदवत्तद्दोंपेन लिप्येयम् । अनुजत्वेन तन्मनीषिताः सर्वे दोषास्तदाज्ञया मया कृता इति भावः ॥१०॥राघवस्य तु प्रियापहारनिरोधादिभिः समाश्रितहननाच विशेषतस्तेनापकृतमित्याइ-तेनेति । स्पटम् ॥ ११ ॥ तनि०-पूर्वोक्तदोषाः पायश्चित्तनिवाः । न क्षमामीत्युक्तभागवतापचारोऽप्यस्तीत्याह-नति । तेन उक्तसकलरोषवता । हृता 'अनन्या राघवेणाहम् । जलान्मत्स्याविवोद्धृती' इत्यायुक्तरीत्या रामविश्लेषानहरे हता। सीता गर्भवासादिकेशाभावेन परमपदादजहत्वभावतया अत्यन्तसौकुमार्या । जनस्थानाव पुष्पापचयादिभोगानामेकान्तस्थानतया अयोध्यात उत्कृष्ट | त्वेन सम्मतात् । जटायुषं हत्वा 'मम पाणा हि' इत्युक्तरीत्यात्पन्ताभिमतं जटायुषमवधीद । यदि सीतया सह जटायुषमपि कारागारे निवेशितवान् तदा मोचनं स्पाद । तथा न कतम् । स्वस्य सपरिवारस्य विनाशार्थमेवं कृतवान् । रुद्धा च प्रमादाद्धरणेऽपि पश्चानापेन पुनर्न त्यका किंतूच्छासनिश्वासासञ्चारस्थले रुखा। विवशा न्यस्तपाणि पादाचलनेन रामविश्लेषदुःखेन आश्वासकान्तराभावेन च सबलहानि प्रकाशयन्ती स्थिता । रामभोगपरम्परया हृष्टामेतादृशावस्थाविशिष्टां कृतवान् । राक्षसीभिः सुरक्षिता रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा । आत्मनिक्षेपकार्पण्ये पविधा शरणागतिः।" इति भगवच्छास्त्रोक्ता पडला शरणामतिः प्रदर्शिता ॥९॥ रावणः| रावयतीति व्युत्पत्त्या नाव लोककण्टकत्वं द्योत्यते। दुर्वृत्त इत्यनेन कृत्याकरणाकृत्यकरणरूपदोषवत्त्वमुच्यते।राक्षस इत्यनेन जात्या क्रौर्यमुच्यते । राक्षसेन्चर इत्यनेन भृत्यसम्बन्धमयुक्तदोषवत्त्वमुच्यते । तस्याहमनुजो भ्रातेत्यनेन स्वस्प रावणसम्बन्धनिवन्धनदोषवत्त्वमुक्तं भवति । अनेन "उपायेनैव सिद्धचन्ति पाया विविधास्तथा । इति या गर्वहानिस्तदन्यं कार्पण्यमुच्यते ॥" इत्युक्तगर्वढानिलक्षणं कार्पण्यरूपमङ्गं प्रदर्शितम् ॥ १०॥ ११॥
For Private And Personal Use Only