________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥ ४७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेषामिति । अनादरे चेयं षष्ठी । वदन्तु नामैते वानरा यत् किंचित्, सर्वज्ञः परमकारुणिकः सर्वलोकशरण्यो रामो मामवश्यं रक्षिष्यत्येवेति महाविश्वा सेन तेषामन्योन्यभाषणमनादृत्य प्रहरणोद्यतानामपि तेषामाभिमुख्येनाजगाम । आगत्यापि निर्विशङ्कः सन् सर्वेषामात्मानं प्रकाशयन्नाकाशे एव स्थितवानित्यर्थः । अत्र खस्थो व्यतिष्ठतेति द्विः प्रयोगो निर्भयत्वेन निष्कम्पावस्थानसूचनार्थः ॥ ८ ॥ अथ पुरुषकारलेशमनपेक्ष्य सर्वानपि प्रति बन्धिनो निवार्य मां रक्षिष्यतीति महाविश्वासशाल्यपि विभीषणः सहसा रामं शरणं नोपजगाम । किंतु दूरत एव स्थितः प्रातिकूल्यप्रवृत्तानेव सुग्री तेषां सम्भाषमाणानामन्योन्यं स विभीषणः । उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥ ८ ॥
उवाच च महाप्राज्ञः स्वरेण महता महान् । सुग्रीवं तांश्च संप्रेक्ष्य सर्वान् वानरयूथपान् ॥ ९ ॥
वादीन पुरुषकारभूतान् कृत्वोवाचेत्याह-उवाच चेति । उवाच च चकारेण स्वीकारे स्वागमनमेव पर्याप्तम्, वचनमप्युक्तवान् । पद्भ्यामभिगमाच्चेत्यागमन मपि भारायेति मन्यमानस्य तदुपरि वाक्यं क्षते क्षारवत् । महाप्राज्ञ इत्यनेनान्तरङ्गपुरुषकारेणैव कृपालुरपि राजा शरणमुपगन्तव्य इति परिज्ञानं वानराणां मत्प्रतिकूलसंरम्भोऽपि न मद्देषकृतः किंतु रामभक्तिप्रकर्षकारितः । अतो गुण एवायमिति जानन्, यदि रामपरिचारका एते नाङ्गीकुर्युः किं रामाङ्गीकारेण ? अतो रामाङ्गीकारादप्येतदन्तर्भाव एव मम पुरुषार्थ इति ज्ञानं च विवक्षितम् । स्वरेण महतेति । पुरुषकारभूतानां सर्वेषां सर्वलोक तेषामित्यनादरे षष्ठी । वानरा यत् किमपि वदन्तु नाम सर्वज्ञः परमकारुणिकः सर्वलोकशरण्यश्च श्रीरामोऽवश्यं मां रक्षिष्यत्येवेति महाविश्वासेन तेषामन्योन्य भाषणमप्यनादृत्य प्रहरणोद्युक्तानामपि तेषामाभिमुख्येनाभिजगाम । आगम्यापि निर्विशङ्कस्सन् सर्वेषामात्मानं प्रकाशयन् आकाश एव स्थितवानित्यर्थः । अत्र खस्थ एव व्यतिष्ठतेति तिष्ठतेर्द्धिः प्रयोगः निर्भयत्वेन निष्कम्पावस्थानसूचनार्थः ॥८॥ एते वानरा मदीयमभिप्रायमविज्ञायासौ रावणसम्बन्धीति योद्धुमुद्युञ्जन्ते । रामसमाश्रयणमेतेभ्यो निवेद्य एतत्पुरुषकारमुखेनैव रामलक्ष्मणौ समाश्रयिष्यामीत्यभिप्रेत्याब्रवीदित्याह--उवाचेति । महाप्राज्ञ इत्यनेन अन्तरङ्गपुरुषपुरुषकारेणैव कृपालुरपि राजा शरणमुपगन्तव्य इति परिज्ञानम्, वानराणां मत्प्रतिकूलसंरम्भोऽपि न महद्वेषकृतः किन्तु श्रीरामभद्रभक्तिप्रकर्षपारवश्यकारितः, अतो गुण एवायमिति ज्ञानम्, यदि श्रीरामपरिचारका एते नाङ्गीकुर्युः तदा किं रामाङ्गीकारेण ? रामाङ्गीकारादप्येतदङ्गीकार एव मम पुरुषार्थ इति ज्ञानं च विवक्षितम् । स्वरेण महतेति पुरुषकारभूतानां सर्वेषां सर्वलोकशरण्यस्य चार्तरवश्रवणाय महास्वरप्रयोगः । महान तत्र महत्वमौपाधिकसम्बन्धपरित्यागपूर्वकनिरुपाधिक स्वामिसमाश्रयणान्मुख्यकृतम् । " रावणो नाम दुर्वृत्तः " इत्यारभ्य “विभीषणमुपस्थितम्" इत्यन्तेन प्रकरणेन " आनुकूल्यस्य सङ्कल्पः मातिकूल्यस्य वर्जनम् ।
For Private And Personal Use Only
टी.यु.कां. स. १७
॥ ४७ ॥