SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir शीघ्रं हत्वा आगन्तव्यमिति प्रेषितवान् मन्त्रेण विलम्बे कृतेऽयमतिशेत इति झटिति निश्चितवान् । तुशब्दः निश्वयानन्तरं पूर्वावस्थापेक्षया वैलक्षण्यं व्योतयति । तानु वाच प्रेमपरवशानुवाच ह । स्वामिपरिकरसमवायप्रकार आश्चर्यकर इति ऋषिरभिनन्दति हेति । हनुमत्प्रमुखान् । गौरवकाले जाम्बवत्प्रमुखानिति वक्तव्यम् । मन्त्रविचारकाले तु बुद्धिमत्त्वप्राधान्यात् हनुमत्प्रमुखानित्युक्तिः । सर्वान् । रामविषय प्रेमातिशयः सर्वेषामविशेष इति सर्वानित्युक्तिः । इदं वचनम् । अर्थमन्तरे णापि वचनसन्निवेशम्य श्रुतित्रियत्वमभिनन्दति ऋषिः । उत्तमं सर्वोत्कृष्टम् ॥ ४ ॥ स्वनिर्णीतार्थमाह-एष इति । एषः बाधकतैकान्तकौर्यसम्पन्नः । सर्वायुधो एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः । राक्षसोऽभ्येति पश्यध्वमस्मान् हन्तुं न संशयः ॥ ५ ॥ सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः । सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ॥ ६ ॥ शीघ्रं व्यादिश नो राजन वधायैषां दुरात्मनाम् । निपतन्तु हतार्श्वते धरण्यामल्पतेजसः ॥ ७ ॥ पेतः मनःस्थित कौर्यानुकूलहिंसा परिकरसंपूर्णः । अनुकूलस्य प्रतिकूलतानिश्वयवत् रामविषयप्रेमान्धतया एकायुधस्य बहुत्वनिश्वयः । एकायुधग्रहण चातुर्यदर्शनेन सर्वायुधग्रहणेष्वपि नैपुण्यं ज्ञायत इति वा तथोक्तम् । स्वामिपीडने ब्रह्मास्त्रसदृशशरणागतिरेतस्य हस्ते विद्यत इति वा । उत्पपात गदापाणिरित्यत्र सर्वायुधोपलक्षणमित्यन्ये । राक्षसः सर्पजातिरितिवत् क्रौर्यातिशयोक्तिः । पश्यध्वं पश्यत । अस्मान् हन्तुम् । अस्मासु कस्य चिद्धनने हि शेषं जीविष्यति मूलभूतरामहनने सर्वविनाश इति बहुवचनार्थः ॥ ५ ॥ वानराश्च सुग्रीववाक्यानुसारेणोद्योगं चक्रुरित्याह- सुग्रीवस्येत्यादि | श्लोकद्वयेन । अल्पतेजस इति । अस्मद्बलस्य गजकवलप्राया इत्यर्थः ॥ ६ ॥ ७ ॥ तनि०- सुग्रीवस्य साहसकृत्पनिर्वाहकस्य । वचः श्रुत्वा अनुमतिं लब्ध्वा । सालानुव्यम्य शैलांश्च शैल वृक्षतारतम्यानादरेण सहसा हस्तसुलभान् स्वीकृत्य । आदरातिशयेन प्रत्येकमुभयपरिकरत्वमुक्तम्, रामकैऱ्यांनुकूलवृनेलक्ष्मणस्य युगपच्छत्र चामरग्रहणवत् । राक्षसहननं हि रामकैङ्कम् । इदं वचनं स्वशेषत्वसिद्धये सुग्रीवानुमतिमप्यनवेक्ष्य तेषां वधनिश्वयोपपादकं वचनमब्रुवन् । गुणप्रधानभावमौचित्यं वाऽन पेक्ष्य सर्वे अब्रुवन् । अस्वतन्त्राणामनुमतिविलम्बे स्वतन्त्रप्रहारे च पारतन्त्र्यहानिः स्यात् सा यथा न भवति तथा शीघ्रमाज्ञापय । नः वधोद्युक्तानस्मान् । वधो युक्ता यूयं किं ममानुमत्येत्यत्राह - राजन्निति । राजाज्ञा खल्वनुवर्तनीयेति भावः । वधाय गृहीत्वा बद्धाश्वेदत्र स्थित्वा कथंचिदनर्थं कुर्युः अतो बधायैवानुमति दया। एषां दुरात्मनाम् आकारेणैव दौरात्म्यं दृश्यते खलु । निपतन्तु हताः सर्वे हताः पतन्तु । यथा पुनराकाशं नोत्पतन्ति तथा भूमावेव निपातयिष्याम इति भावः । युद्धे जयाजयौ पाक्षिकावित्यत आह अल्पतेजसः अल्पबलाः । अस्मद्वलस्य गजकवलमाया इति भावः ॥ ६ ॥ ७ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy